SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ विशेषावकारपक्ष उक्तः, अधिकारपक्षेऽप्यमुं दोषं परिजिहीर्घराह-'अहवे'त्यादि // 'जं साहिकयश्चिय' ति यस्मादसौ व्याख्यानविधिःपद 18 प्रवचनादिः कोट्याचार्य अधिकृत एव-प्रस्तुत एव, क्वेत्याह-अनुगमे-तृतीये द्वारे, कुत एतत् ? इत्याह-व्याख्यानाङ्गत्वात्, ततः किमिति चेदुच्यते वृत्तौ | 'ततो'त्ति ततः तस्मान्न दोषश्चतुर्दारासंग्रहलक्षणः, एतदेव भावयन्नाह-यद्यद् व्याख्यानाङ्गं तत्तत्सर्व यतोऽनुगम इत्यतोऽधिकृतैव सेति // 395 // गाथार्थः॥१३६५।। अस्मिन्नेव च पक्षे इदमपरमाह, यतश्च-'सुत्ते'त्यादि / सुत्ताणुगमादीये वक्खाणविही जओ भणिओ न्यायविदा परमेश्वरेण 'सुत्तं पयं पयत्थो' इत्याद्येतदुपलक्षकवचनाद् अतोऽनुयोगाङ्ग सेति, यस्माच 'श्रुतावसर एवं' सूत्रानुगम // 395 // प्रस्ताव एव 'सकलानि' प्रयोजनवन्ति गवाद्युदाहरणानि भवन्ति 'गोणी चंदणकथेत्यादीन्युत्सर्गेण, तस्मादनुगमाङ्गं सेति को | वक्तीयं चतुर्दारासंगृहीतेति, अयं चात्र भावार्थः-अवश्यमेव सूत्रे व्याख्यायमाने योग्यायोग्यनिभालनं कर्त्तव्यं, यत उक्तम्-"आमे | घडे निहितं जहा जलं तं घडं विणासेइ / इय सिद्धतरहस्सं अप्पाहारं विगासेइ // 1 // " इति गाथार्थः // 1366 / / तदेवं स्थिते | | भाविवस्त्वङ्गीकृत्य चिचोदयिषुराह-'जदी' त्यादि / यद्यसौ व्याख्यानविधिः 'अनुगमाङ्ग सूत्रानुगमादेः कारणमेव ततः 'द्वारविधे' उपोद्घातस्यादाववतार्य किं भग्यते?, कस्माद्भणिज्यत इत्यर्थः, येनोचते-गोगी चंदनकथा' ततः उद्देसे निद्देसे यनिग्गमे इत्यादि // 67 / / ननु को ह्युत्क्रमकरणे गुगो लभ्यत इति ?, उच्यते-दारे'त्यादि // द्वारविधिरपि 'उद्देसे निदेसे' इत्येवमादिका महार्था बहुवृत्तान्ता कल्याणहेतुत्वात् सूत्रवत् , ततश्च तत्रापि ब्याख्यानविधिविपर्यासः अविनीतादिप्रदानलक्षणोऽतिरोषणपार्श्वश्रवणल| क्षणो वा मा भूत् अतस्तदादौ उपोद्घातविवेरादौ व्याख्यानविधि निरूपयति अतस्ततोऽयमवतार्येह भण्यत इति गाथार्थः | // 1368 / / कथं नु नाम-एत्येवेत्यादि / अत्रैव' द्वारविधावाचार्यो जिज्ञासतगुणदोषाय गुणवते शिष्यायानुयोगं वक्ष्यति, शिष्यश्च
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy