________________ अपकणिः विशेषाव कोव्याचार्य वृत्ती // 386 // // 386 // ECAR ARROF4-15 'उवे'त्यादि दवे'त्यादि, यह दावानलानुभूषितोऽञ्जनद्रुमः पुनरुदकासेचनादिप्रत्ययलाभादंकुरादिरूपतां भूयोऽप्यामोति, भस्मच्छनो वाऽनलः, तथाऽसावपि जीवो भूत्वा तथाभूतो भूयोऽपि तथा भवति येन-'तम्मी'त्यादि / अथवा स तस्मिन्नेव भवे | निर्वाणं न लभते, तस्य क्षपकश्रेण्यायत्तत्वात, द्वितीयभवे तु लभेतापि, उत्कृष्टतस्तु सम्यग्दृष्टिकाल इति / एवम्-'जदी'त्यादि / 'अण'इत्यादि, अणं ऋणं, शेषं स्पष्टम् / 'दासत्त'मित्यादि स्पष्टा // दारं // 1313-18 // 'ओव' इत्यादि / यतश्च 'सुहुमे'त्यादि। 'अण'इत्यादि / 'पडी'त्यादि, प्रतीतार्था, नवरं पूर्वविदप्रमत्तः शुक्लध्यान्यपि, शेषास्तु धर्मध्यातार एवेति // 1319-20-21 // अत्र च-'पढमें'त्यादि, प्रतीतार्था / असावेतत्प्रस्तोता-'बद्धाऊ' इत्यादि / यदि नरकादौ बद्धायुः प्रतिपन्नः स्याद् , स च यद्यनियतकालत्वादायुरन्तस्य प्रथमकषायक्षयमात्रे म्रियेत ततो भूयोऽप्यसौ तांश्चिनुयात्, किं कारणमित्यत आह-मिथ्यात्वोदयकारणावस्थानात् , क्षीणे मिथ्यात्वे, किममृलं प्रवर्तत ? इति गाथार्थः // 1322-3 // 'तम्मी'त्यादि / तस्मिन्-कषायचतुष्टये क्षीणे मृतो देवलोकं याति, तथा च सप्तके 'क्षीणे' भसतां याते, दिवं यातीति वर्त्तते, क्षपकश्रेणिपरिणामः सन् , न तूत्तरकालं, आह च-उपरतपरिणामः पुनः पश्चान्नानामतित्वाच्चित्रगतिः स्यात, चतुर्गतिकत्वादिति गाथार्थः॥१३२४॥ ननु च-खीणम्मी' त्यादि / क्षीणे दर्शनत्रये, सप्तक | इत्यर्थः, किमसौ भवति !, उच्यते, त्रिदर्शनातीतः, एकवाक्यतया वा प्रश्नः, उच्यते-सम्यग्दृष्टिः, श्रेणिकवत् // 25 // आह| मोहनीयांशत्वात् सम्यक्त्वस्य तत्क्षये कुतः सम्यक्त्वम् / इत्यत आह-'निब्बलिए' त्याति // एवंरूपं मिथ्यात्वमेव यत् क्षीणं | तस्स, न तु यो भावः श्रद्धानलक्षणस्तस्य जन्तोः, तस्येदानीमेवोदिततरत्वात् / / 26 // तथाहि-'सो'इत्यादि / / स तस्य दृष्टिलक्षणो भावो विशुद्धतरो जायते, सम्यक्त्वपुद्गलक्षयात् , सांसिद्धिकत्वात् , 'दृष्टिरिव' चक्षुरिख // 27 // अनुग्रहायाह-'जहे'त्यादि, सुगमम् // 28 // CARRCH