SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य RASHRSHERE * // 352 // SCORCANE 'तेसिन्ति णाणचरणाणं / 'नाण' मित्यादि, सुपर्चा |७४॥'असहाय मित्यादि // 75 // 'न येत्यादि / / 76 // तमःप्रधानं 9 // तमप्रधानाज्ञानक्रियागृहं तमोगृहं तस्मिन् मलमिति // 'तहे' त्यादि स्पष्टम् // 77 // आह-एवं द्वयकारणाभ्युपगमविरोधः 1, उच्यते-'संजम' हेतुवादः इत्यादि 78 / / 'जति यतः 'क्रिया' चारित्रात्मिका एकैव सती संयमतपोमयी मता, किंविशिष्टेत्यत आह-संवरनिर्जरफला यथासंख्यमिति, शेषं स्पष्टम् / आह-एवमपि 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (तच्चा० अ०१ सू०१) इति विरुध्येत, // 352 // सम्यग्दर्शनसाधनाङ्गाभ्युपगमात्, तत्र केचित्परिहारं व्यावर्णयन्ति 'पूर्वस्य लाभ भजनीयमुत्तरं, उत्तरलाभेतु नियतः पूर्वलाभ' (1-1 तत्वा० भाष्य) इति न्यायेनोत्तरग्रहणे पूर्वग्रहणमेवेति न विरोधः, अत्रोच्यते-नायं न्यायो ज्यायान् , क्रियामात्रग्रहणप्रसङ्गात् , क्रियालामे चाद्यद्वयलाभात्, अपिच-नायमागमिका, ज्ञानशून्यसम्यक्त्वादशनाद्, अनवबुद्धे श्रद्धानायोगात्, इतश्च न सम्यग्दृष्टिरतः 'सम्यग्दृष्टेर्मतिर्मविज्ञान मित्येवमादिवचनात् , यच्चाहुः-न निसर्गसम्यग्दर्शनलाभकाले श्रुतमस्ति किल परोपदेशाभावात् , | तदपि न मृष्यते, परोपदेशत्वेन शब्दस्य द्रव्यश्रुतमात्रत्वाद्, द्रव्यश्रुतस्य चानधिकृतत्वाद्, भावश्रुतस्य चाधिकृतत्वात् , तस्य च | 'सम्मदिद्विस्स सुयं सुयनाण' मिति वचनेनानिषिद्धत्वात् , मतिज्ञानसद्भावाच, मतिज्ञानस्य च श्रुतज्ञानाशून्यत्वात् , 'जत्य मतिनाणं तत्य सुयनाणं' ति वचनात् , पारिशेप्यात् ज्ञानविशेष एव सम्यक्त्वमिति ज्ञानग्रहणादवरुध्यते, न लाभक्रमनियमात् , कथं पुनः ?, | उच्यते, यथा बोधात्मिकाया मतेरनाकारत्वादवग्रहेहे दर्शनं, साकारत्वाच्चापायधारणे ज्ञानं, एवं व्यवसायात्मकत्वेऽवायस्य श्रद्धानावगमतोऽध्यवसायमेदेन सम्यक्त्वज्ञानलक्षणो मेद इति सुष्टच्यते-'नाणं पगासय' मित्येवमादीति गाथार्थः // 1179 / / अथ पौर्वापर्येणोत्तरगाथासम्बन्धनार्थममुं प्रपनाह * *
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy