________________ विशेषाव कोट्याचार्य वृत्तौ ROSSANAKA तेनैतदुक्तं भवति, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा वस्तु वस्त्वेव न स्यात् 'अणमिहाणादिति अभिधानरहितत्वादवाच्योऽभाव इव, अ-15 नामादिनमिधानरहिता शुकुशुकेवेत्यर्थः, तत्रैतत्स्यात्-सङ्गीतिमात्र तत्प्रत्ययहेतुर्नाभिधानं, अकृतसङ्केतस्याभिधानश्रवणेऽपि वाच्यार्थाप्रतिपत्तेः, यवादाः उच्यते, न, रूपादिष्वपि तत्समानत्वात् , ततश्च स एवानभिलापदोष इति गाथार्थः // 61 // अपि च विशेषोपलम्भार्थमाह-संसयइत्यादि / 'संशयविपर्यया'विति यदा न वस्तुधम्मो नाम तदा घट इत्युक्ते वक्त्रा श्रोतुः संशयः स्यात्-किमयमाह ? इति, विपर्ययाद्वा पट एव प्रतिपत्तेः, अथवाऽनध्यवसायः स्यात्-चित्तव्यामोहः स्याद् , अथवा यदृच्छया-अनियमलक्षणया स्यादर्थे-पटलक्षणे प्रतिपत्तिरिति गाथार्थः // 62 // अपिच-'वत्थुस्से'त्यादि, 'वस्तुनो' जीवादेः, किमत आह-'अभिहाणाहीणाओ'त्ति अभिधाना| यत्ताः,काः? इत्याह-लक्ष्यं च लक्षणं च संव्यवहारश्चेति लक्ष्यलक्षणसंव्यवहारास्तेषामविरोधेन-अविपर्ययेण सिद्धयः-प्रतिष्ठा इति विग्रहः, तत्र लक्ष्यं जीवः लक्षणमुपयोगः संव्यवहारोऽध्येषणप्रेषणादिः, तथा बुद्धिनिश्चयानुरूपा 'सहो यत्ति शब्दसामान्यं, अभिधानं तु पतिविशिष्टाकारा संज्ञेति, तथा क्रिया चोत्क्षेपणादिका, किम् ?-अभिधानाधीना इति, शब्द एव वस्तु सन् तदायत्तात्मलाभत्वादितरस्य तु शुकशुकात्वाद् अपि चायं व्यवहारः शब्दवता क्रियेताशब्दवता वेति ?, नाशब्दवता अवाच्याभावम्यापि तत्प्रसंगात ,इतरेण चेदस्मदिष्टा सिद्धिरिति शब्दनय इति गाथार्थः // 63 // आकारनय आह-'आगारो चिय'इत्यादि,आक्रियत इत्याकारो, निरंशो भाव इति | | भावः, असौ आकार एव,एवकारेणानभिमतप्रतिषेधमाह,किमत आह-'मती'त्यादि, द्वन्द्वः, कथं मतेस्तावदात्मगुणत्वात् तस्याश्च ज्ञेया-15 लम्बनत्वेनाकारवत्त्वात् ,अनाकारवत्वे चानभिगतपदार्थवदभिमतस्यापि परिच्छेदायोगात् ,पीतादि पदार्थादर्शनादावप्यतदाकारत्वात् नील-1 स्येदं संवेदनं न पीतस्येत्यप्राप्तेरित्यर्थः, शब्दश्चाकारवान् पौद्गलिकत्वात् ,वस्त्वपि घटाद्याकारवत् , प्रत्यक्षसिद्धे,क्रियाऽपि क्रियावतोऽन RECRORATKICE