________________ विशेषाव कोट्याचार्य वृत्ती चरणस्य सारत्वं // 344 // RRRRRRGG // 344 // नाणं पयासयं चिय गुत्ति-विसुद्धिष्फलं च जं चरणं। मोक्खोय दुगाहीणो चरणं नाणस्स तो सारो॥११३५॥ जं सव्वनाणलाभाणंतरमहवा न मुच्चए सव्वो। मुच्चइ य सव्वसंवरलाभे तो सो पहाणयरो // 1136 // लाभेवि य जस्स मोक्खोन होइ जस्स य स होइ स पहाणो। एवं चिय सुद्धनया नेव्वाणं संजमंति // 1137 / / 'सामाइयेत्यादि / सामायिकमादिर्यस्य तत्सामायिकादि 'जाव बिंदुसाराओ' बिन्दुसारपर्यन्तं, यावच्छब्दाद् 'द्वयनेकद्वादशभेद'-मिति गम्यते, तस्यापि श्रुतज्ञानस्य सारः-फलं चरणं-चारो, भावे ल्युट्प्रत्ययः, चर्यते वाऽनेनेति चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात्सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितः सम्बन्धः, तस्य सारश्चरणमपि, अ. | पिशब्दान्निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात् , चरणस्यैव च ज्ञानरहितस्य स्यात् , अनिष्टं चैतत् , सम्यग्दर्शनादित्रयान्मोक्षाभ्युपगमाद्, इह त्वनन्तरफलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाच्च श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्थमुपन्यास इति गाथार्थः॥११३१॥ 'सोउमित्यादि / अथवा 'सोउं सुयन्नवं दुग्गेझं (श्रुतस्य)महत्त्वात्परिमितत्वादायुषः स्वतश्च जडत्वात् सारमात्रकमस्य ग्रहीष्य इतिकृत्वा तत्पृच्छति शिष्यः-कोऽस्य सारः, गुरुर्भणति-चरणं, अपृष्ट एवाह-तस्यापि मोक्षमात्रकमिति गाथार्थः // 1132 // अत्र दृढमूढतया परस्तस्यापि सारश्चरणमित्यक्षमन्नाह-'अण्णाणओं इत्यादि / अण्णाणओ| हयत्ति किरिया, अकिरियाओवि हयं नाणं' तिकृत्वा ज्ञानक्रियाभ्यां निर्वाणं भणितं भगवता' 'तो किह नाणस्स चरणं सारो तं तु नाणं असार'मित्युच्यते। ननूक्तं सारशब्दःप्रधानफलपर्यायवचन इति, तत्रैतत्स्याद्-एतदेव न क्षम्यत इत्यत आह-'चरणे'त्यादि 'यत्' यस्मात् ज्ञानं त(स्य चरणलाभ)स्य कारणं चरण(लाभश्च) निर्वाणस्य, साक्षात्कारणत्वात् , तेन कारणेनास्य सारश्चरणं, कोऽत्र SHAROL