________________ - - विशेषाव० कोट्याचार्य -- श्रीवरिगणधरवाचक्रवंशनतिपूर्व प्रतिज्ञा - वृत्ती // 327 // // 327 // अत्थाओ व पुहत्तं जस्स तओ वा पुहत्तओ जस्स / जंवा अत्येण पि अत्यपहत्तंति तन्भावो // 1078 // 'वन्दामी'त्यादि सभाष्या गाथाः सुखोनेया इति, नवरं 'भागः' अचिन्त्या शक्तिः, अथवा 'भज सेवाया'मिति भजनं भागो, भक्तिरित्यर्थः, महान् भागोऽस्येति महाभागः-महातिशेषभजनम् , अथवा महद्भिः-इन्द्रादिभिर्भागो-भजन सेवेति, 'मन जाने इति मन्यतेऽसावित्येवमादि, वन्दे वन्दामीति चप्राकृते सर्वत्रोभयपदोपदर्शनार्थमिति // 1062-66 // अथ वक्तुर्मङ्गलार्थ वन्दनमभिघायाधुना सूत्रकर्तृप्रभृतीनामप्याह-'एक्कारसञ्वी'त्यादि।। एकादशेति संख्या, 'अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति ते गणधरास्तान् , प्रकरण प्रधाना आदौ वा वाचकाः प्रवाचकास्तान् , कस्य ?-'प्रवचनस्य' आगमस्य, किं , वन्दामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्व' निरवशेषा गणधरा-आचार्यास्तेषां प्रवाहो वंशस्तं, तथा वाचकाः-उपाध्यायास्तेषां वंशस्तं, तथा 'प्रवचनं च आगमंच वंदामीति-सम्बन्धः, तत्रैतत्स्याद्-वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति !, उच्यते, यथा अर्थसूत्रप्रणेतारस्तीर्थकरगणधरा वन्द्याः एवं यैरिदमर्थसूत्ररूपं प्रवचनमानीतं तद्वंशोऽप्यानयनद्वारेणोपकारित्वादन्ध एवेति, प्रवचनं तु साक्षावृत्त्यैवोपकारीति गाथार्थः // 1067 // 'पुज्जो' इत्यादि भाष्यगाथाः पडेतदनुसारेणानुसतव्याः॥१०६८-७३।। प्रकृतमुपदर्शयन्नाह-'ते' इत्यादि। 'ते तित्थेत्यादि // ते तित्थगरादीएऽभिवंदिउं सिरसा, सुकृतमङ्गलोपचार इत्यर्थः, किमत आह-प्रकृतामुपोद्घातनियुक्ति वक्ष्ये, कस्येत्यत आह-श्रुतज्ञानस्य भगवतः, स्वरूपं चैतत् , किंविशिष्टस्येत्यत आह-तैः-तीर्थकरादिभिः कथितस्य, पुनरपि किंविशिष्टस्येत्यत आह'अत्यपहत्तस्सति सूत्रार्थोभयरूपस्य, अर्थाद्वा पृथग्भूतस्येत्येवमादिति गाथार्थः // 1074-75|| सांप्रतं-'अत्थपुहुत्तस्स निज्जुत्ति इत्येतद्व्याचिख्यासुसह-'अत्थों इत्यादि / अर्थ्यत इत्यर्थः, असावर्थः श्रुतस्य विषयो, वाच्यत्वात्तस्य, कस्पेत्यत आह-'श्रुतस्य' श्रुतज्ञान ROCARRORGANA