________________ विशेषावः कोव्याचार्य वृत्ती सूत्रव्याख्यालक्षणं // 314 // // 314 // 20LARKAR | त्यादि / इहार्थस्य वाचकं पदं भवति घोतकं च, तत्र वृक्षस्तिष्ठतीत्येवमादि वाचकं, प्रादयश्चादयश्च प्रायेण द्योतकं, एवं सामान्येन, न पुनर्विशेषतः, विशेषतः प्राह-तत्पुनर्नामिकादि पञ्चविधं, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्रम् / पदार्थश्चतुर्विधस्तद्यथा-कारकवाच्यः कारकविषयो, यथा पचतीति पाचकः, समासविषयो यथा राज्ञः पुरुषो राजपुरुषः, तद्धितविषयो वसुदेवस्यापत्यं वासुदेवः, निरुक्तविषयो भ्रमति च रौति च भ्रमर इति गाथार्थः॥१००७-८॥ 'पर'इत्यादि / अथवा | परबोधहितः पदार्थविविधो वाच्यः, तद्यथा-क्रियाकारकविषयो यथा-घट चेष्टायामिति, घटते असाविति घटः, तथा पर्यायवचनतो|ऽपि यथा घटः कुटः कुम्भः इति, तथा भूतार्थाभिधात श्च ऊर्ध्वकुण्डलौष्ठायतवृत्तग्रीवत्वाद् घट इति यथेति गाथार्थः // 1009 // अत्रैव प्रकारान्तरमाह-पच्च'इत्यादि / अथवाऽसौ पदार्थो वाच्यः सूत्रस्य कथं,-'प्रत्यक्षत' यथाश्रुतित एव, सम्यग्दर्शनादीनि मोक्षकारणं 'अहवाऽणुमाणतो सो वचो सुत्तस्स' अनुमान-अर्थापत्तिः, ततश्च मिथ्यादर्शनादीनि तु न, 'लेसतो वत्ति अथवा | लेशतोऽसौ सूत्रस्य वाच्यः, किमुक्तं भवति ?-समस्तपदोपादानात्, न व्यस्तानीत्यर्थः, तथा-'बच्चो वेत्यादि, अथवा यथासंभवं वाच्यस्तद्यथा-आगमतो भव्यामव्याभिधानादिवत् , हेतुतो न सर्वगतोऽयमात्मा. कर्तृत्वात् कुलालादिवत्, आह-मृर्तोऽपि स्याचत एव हेतोस्तद्वद् ,उच्यते, इष्यत एव संसारीति गाथार्थः // 1010 // 'पाय' मित्यादि / इह बाहुल्यतः 'पदविच्छेदः' पदविश्लेषः 5 'समासविषयः' समासाव्यभिचारी सदाऽनेकार्थो बहुव्रीहिविशेषणसमासादिप्रकारेण अतस्तदर्थनियमार्थः 'पदविग्रहो भण्यते पदयोः पदानां वा समासः क्रियते, यथा राज्ञः पुरुषः राजपुरुषः श्वेतः पटोऽस्येति श्वेतपटः, स च शुद्धपदे न संभवत्येवेति गाथार्थः ४॥१.११॥'सुत्त'इत्यादि // 'सूत्रगतं' सूत्रेण न्यायेन 'अर्थगतं' (विषये) आर्थेन न्यायेन यच्छिष्यचोदकाभ्यां दृषणमारभ्यते तच्चा