SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ SRIOR वृत्ती विशेषाव०||दिष्टं खसिद्धान्ते, यथा-सप्तमः पदार्थो दशमं वा द्रव्यं वैशेषिकस्य, प्रधानपुरुषाम्या अधिकं सांख्यस्य, चतुःसत्यातिरिक्तं च शाक्यस्ये-लसूत्रस्पनि कोव्याचाय | त्येवमादि, अपदं पद्यविधावन्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं यथाऽर्यापदे बैतालीयादिपदाभिधानं, स्वभावहीनं यद्वस्तुनः खभा युक्तिः सूत्रवतोऽन्यथावचनं,यथा-शीतोऽग्निः मूर्तिमदाकाशमित्येवमादि, व्यवहितम्-अन्तर्हितं, तथाहि-यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय लक्षणं च // 31 // | पुनः प्रकृतमधिक्रियते, यथा-हेतुकथामधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्येवमादि, 'काले त्यादि & // 31 // | 'कालदोष' अतीतादिकालव्यत्ययः, यथा-रामो वनमनुप्रविशति बध्यते कर्ण इत्येवमादि / 'यतिदोषः' यतिव्यत्ययः, यतिः-विच्छेदः तस्याकरणमस्थानकरणं वा यथा-स्रग्धरायास्त्रिसप्तकेष्वकरणमन्यत्र वा करणमित्येवमादि, 'छविदोषः' छविविहीनता, छविलङ्कारविशेषस्तेजस्विता, समयविरुद्धं यत् स्वसिद्धान्तविरुद्धं, यथा-सांस्यस्यासत्कारणे कार्य, सद्वैशेषिकस्येत्येवमादि, वचनमात्रमहेतुकं, यथेष्टभूदेशलोकमध्याभिधानवत् , अापत्तिदोषो यत्रार्थाद निष्टापत्तियेथेह ब्राह्मणो न हन्तव्य इति, अर्थादब्राह्मणघातापत्तिः, 'असमासदोषः' समासव्यत्ययः, यत्र वा समासविधौ सत्यसमासवचनं यथा-राज्ञः पुरुषोऽयमित्येवमादि, उपमादोषो-हीनाधिकोपमानुपमाभिधानं, यथा | मेरुः सर्षपोपमः सर्षपो मेरूपमो, मेरुः समुद्रोपम इत्येवमादि,रूपकदोषः-स्वरूपावयवव्यत्ययो यथा-पर्वतरूपावयवानां पर्वतेऽनभिधानं समुद्रावयवानां चाभिधानमित्येवमादि, अनिर्देश्यदोषो यत्रोद्दिश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचदतीति वक्तव्ये पचतिशब्दानभिधानं, पदार्थदोषो यत्र वस्तुपर्यायवाचिनः पदार्थस्यार्थान्तरपरिकल्पनमाश्रीयते, यथेह द्रव्यस्वरूपपर्या यवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य, सन्धिदोषो विश्लिष्टसंहितत्वं व्यत्ययो वेति, एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं, तदिति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यश्चेति वचनाच्छन्दनिर्देशो गम्यते // तथाऽष्टामिश्च गुणैरुपेतं तत् , लक्षण-| AHARASHREE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy