________________ विशेषाव कोट्याचार्य tr वृत्ती // 26 // UARC ननु कथमिह मंगलोपयोगमात्रात्तन्मयता', नाग्निज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, तदर्थक्रियाप्रसाधकत्वादित्यमि मावमंगल प्रायः', उच्यते-उपयोगो ज्ञानं संवेदनमिति पर्यायाः, ततश्च 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्वप्रवादिनामविसंवादस्थानं, यथा कोऽयं ?, घटः, किमयमाह , घट इति, किमस्य ज्ञानं 1, घट इति, तथाऽग्निरिति च यज्ज्ञानं तदव्य // 26 // तिरिक्तो ज्ञाता तल्लक्षणोऽभिगृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, न चानाकारं | तज्ज्ञानं, पदार्थान्तरवद्विवक्षितपदार्थस्याप्यपरिच्छेदप्रसंगात , बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामस्यान्यत्वादाकाशस्येव, न चानलः सर्व एव खसत्तां बिभ्रदात्मकार्य करोति, भस्मच्छन्नेन व्यभिचारात्, न चासौ नाग्निरिति, लोकादिप्रतीतेरिति / 'नोआगमतोति नोआगमतो भावमंगलमिति, किमित्याह-भावः, किंविशिष्ट ? इत्याह-सुविशुद्धः-पटीयान् , कोऽसावित्याह-क्षायिकादिः, तत्र क्षायिकश्चारित्रं दर्शनं च, आदिशब्दादौपशमिको दर्शनचारित्रादि, सर्वप्रतिषेधवचनत्वात् नोशब्दस्येति, अथवाऽऽगमवज ज्ञानचतुष्टयमिति गाथार्थः॥४९॥ 'अहवा सम्मईसणणाणचरित्तोवयोगपरिणामो' (जो), स न आगम एव,चारित्रादिसद्भावात् , नाप्यनागमः, ज्ञानस्यापि सद्भावात् , अतोऽसौ नोआगमतो भावमंगलं, यतः 'नोसद्दो मीसभावम्मी ति गाथार्थः॥५०॥ अथवेति प्रकारान्तरार्थः, इह-नोआगमतो भावमंगलाधिकारे नमस्करणं नमस्कारः, अर्हदादिप्रणतिरित्यर्थः, स आदिर्येषां स्तोत्रादीनां ते है नमस्कारादयस्तेषु ज्ञानं-उपयोगो नमस्कारादिनानं क्रिया-शिरसि करकमलमुकुलविधानादिका, नमस्कारादिज्ञानं च क्रिया च* नमस्कारादिज्ञानक्रिये ताभ्यां विमिश्र इति विग्रहः, पुनर्विशेषणसमासः, स किमित्यत आह-नोआगमतो भण्यत इति, कस्मादित्याह -यस्मात् 'से' अस्य-एतावतः परिणामस्य आगमो-नमस्कारज्ञानोपयोगः एकदेशोऽवयवभूतः। तदेवं मंगलचतुष्टयमावेदितमिति गा tur