________________ विशेषाव. कोव्याचार्य अनुयोगशब्दार्थः वृचौ // 269 // // 269 // पाएण पराहीणं दीवोव्व परप्पबोहयं जं च / सुयनाणं तेण परप्पबोहणत्थं तदणुओगो॥ 842 // सोहिगओ चिय आवस्सयस्स कयरस्स किंथ चिंताए।तंचिय सुयंति साहइ सुयाणुयोगाभिहाणेण // 843 // 'सो'इत्यादि / सोऽनुयोगः ज्ञानपञ्चकमध्ये कस्य ?, उच्यते, श्रुतस्य, तस्यव गुर्वायत्तत्वात् परप्रत्यायकत्वाच्च / / 841 // तथाहि'पाएपेत्यादि ।प्रायोग्रहणं प्रत्येकबुद्धादेः स्वयमपि भावात् , येन कारणेनैवं तेन तदनुयोग आरभ्यते, किमर्थ?, परप्रबोधार्थ, तथाहि| सर्व एव शास्त्रारम्मः परप्रबोधायैवारभ्यते, न पुनराहोपुरुषिकया जनरञ्जनार्थ वा?, यशःख्यातिलाभनिरपेक्षत्वात् मुमुक्षूगामिति गाथार्थः // 842 // एवमुक्त सत्याह-'सोहिगओ इत्यादि // 'स' अनुयोगोऽधिकृत एवावश्यकस्य 'कयप्पवयणप्पणामो' इत्यादिना अतः 'कतरस्स'त्ति किमत्रानया चिन्तया? येनोच्यते-'सो मतिनाणादीणं कतरस्स'त्ति ?, उच्यते, इह 'सुताणुयोगाभिहाणेण सुत्तस्स'त्ति उत्तरेण तदावश्यकं श्रुतमेव, नत्वन्यत् किञ्चिक्रियादि इत्येतत् 'साधयति' कथयति को दोषः ?, तस्मात् प्रतिष्ठितमिदं 'कतरस्स ?, सुयस्सति गाथार्थः।। 843 // आह-यद्येवमनुयोग इति कः शब्दार्थः ? इत्यत आह___ अणुजोयणमणुओगो सुयस्स नियएण जमभिहेएणं / वावारो वा जोगो जो अणुरूवोऽणुकूलो वा // 844 // अहवा जमत्थओ थोवपच्छभावेहिं सुयमणुं तस्स / अभिहेए वावारो जोगो तेणं व संबंधो / / 845 // 'अणु इत्यादि / अनुयोजनमनुयोगः, किमुक्तं भवतीत्याह-सुयस्स निययेण जमभिधेयेण संबंधणं, 'वावारोवा योगो'त्ति 'वा' इत्य| थवा योगो योजनं 'वावारो'त्ति जमुक्तं भवति, ततश्च योग एवानुयोगोऽनुशब्दलोपात् , पुनरपि किमुक्तं भवतीत्याह-योऽनुरूपोऽनुकूलो वा स्त्रस्यार्थेन सह यो व्यापारः सोऽनुयोग इति गाथार्थः // 84 // 'अहवेत्यादि // अथवा 'यत्' यस्मादर्थतः अर्थतः सका.