________________ केवलज्ञानं 5 // 268 // विशेषाव०४ | कोऽर्थः इत्यत आह-'भासमागाणं तीर्थकराणां, नतु 'तित्थगर' इत्येकवचनाभिधानादेवं वचनभेददोषः, तन्न 'अच्छंदा जेण भुंजंति, कोट्याचार्य न से चाइत्ति वुच्चईत्ति न्यायसिद्धत्वात् , 'अहवा वइजोग्गसुर्य'ति वाग्योग एव श्रुतं, केषां, शृण्वतां श्रुतकारणत्वादिति गाथार्थः, तदेवं वृत्ती तत्त्वादिभिर्निरूप्य गत्यादिभिरिदं निरूप्यते-तत्र गतौ सिद्धमनुष्ययोः केवलमस्ति, इन्द्रियेष्वतीन्द्रियस्य, एवं त्रसकायाकाययोः, सयोगायोगयोः, अवेदकस्य, अकषायस्य, शुक्ललेश्यालेश्ययोः, सम्यग्दृष्टेः, केवलज्ञानिनः, संयतनोसंयतनोअसंयतयोः, साकारा॥२६८॥ नाकारोपयोगयोः, आहारकानाहारकयोः, भाषकाभाषकयोः, परीत्तनोपरीत्तापरीत्तयोः, पर्याप्तकनोपर्याप्तकापर्याप्तकयोः, बादरनोबादरयोः, नोसंज्ञिनः, भव्यनोभव्ययोः, चरमाचरमयोः, द्रव्यप्रमाणं प्रतिपद्यमानानामुत्कृष्टतोऽष्टशतं, पूर्वप्रतिपन्नाः केवलिनोऽनन्ताः, क्षेत्र जघन्यतो लोकस्यासंख्येयभागः उत्कृष्टतो लोकः, स्पर्शनमप्येवमेव, कालतः साद्यपर्यवसितं, नास्यान्तरमस्ति, भागाल्पबहुत्वे प्राग्वत् // 838-39 // अथैतावत्कालादारब्धव्याख्यानस्य फलमाह-'केवल'मित्यादि // केवलज्ञानं समाप्तं, तत्समाप्ती नन्दी, तत्समाप्तावपि मंगलं समाप्तमिति // . अथ समुदायार्थद्वारमभिधित्सुराह'केवलं नाण' मित्यादि // 'अधुना' साम्प्रतं,'स' प्रकृतः प्रस्तुतोऽनुयोगोऽभिधीयते, किंविशिष्ट इत्याह-'मङ्गलार्थ:' | मझ्यते हितमनेनेति मगलं तस्यार्थः, मङ्गलसाध्य इत्यर्थः॥ 840 // (इत्थं. नि.७९) साम्प्रतं स इति सामान्येनोक्तत्वादाचार्य एव प्रश्नं कारयन्नाह सो मइनाणाईणं कयरस्स?, सुयस्स, जं न सेसाई। होंति पराहीणाई न य परबोहे समत्थाई // 841 // SASAASAASAASASIR