________________ मनःपर्यायज्ञानम् वृत्ती // 265 // इत्यत आह-'नच नैव तस्य-मनःपर्यायविदस्तत्-अवधिदर्शनं सूत्रे प्रतिपादितं,'न य अण्णं च'त्ति न च अन्यत्-चतुष्प्रकाराद् दर्शनादधिक विशेषाव कोव्याचार्य | मनःपर्यायदर्शनमस्ति, चक्षुरचक्षुरवधिकेवलदर्शनमिति सूत्रप्लुतेरिति गाथार्थः // 819-20 // 'अहवे'त्यादि // अथ चेन्मनःपर्यायदर्शनस्यावधिदर्शनमिति संज्ञा मता तस्यां सूत्रश्रुताविति, कस्येवेत्यत आह-'विभंगदंसणस्स व' यथा विभङ्गदर्शनस्यावधिदर्शन मितिसंज्ञा, सिद्धश्च दृष्टान्तः, उच्यते-भणियं नन्विदं त्वया श्रुतातिक्रान्तं, किं वाङ्मात्रेण ?, नेत्याह-'जेणे'त्यादि / येन मनोज्ञानविदो // 265 // भगवत्यामासीविषोद्देशके द्वे दर्शने प्रतिपादिते चक्षुरचक्षुर्दर्शने, त्रिज्ञानित्वाद् , त्रीणि वा चतु नित्वे सति, ततश्च यद्यवधिदर्शनं स्यान्मनःपर्यायदर्शनं सूत्रश्रुतौ ततः स्यान्नियमेन त्रीणीत्यतस्त्रयमेवावक्ष्यदिति गाथार्थः // 821-22 // 'अन्ने' इत्यादि / अन्ये तु मन्यन्ते-अयं जानाति पश्यति चेति, कः ? इत्यत आह-योऽवधिज्ञानसमग्रः, इतरस्तु जानात्येव केवलं त्रिज्ञानी, अतः सूत्रे सम्भवमात्रं भणितं नन्यादौ 'जाणति पासती ति गाथार्थः॥ 823 // 'अन्ने' इत्यादि। अपरे अभिदधति, यद्-यस्मान्मनःपर्यायज्ञानं 'साकारं' सविशेष 'तो' ततस्तज्ज्ञानमुच्यते, तेन च जानात्येव, न तत्र दर्शनं, यस्मात्पुनस्तानेव स्कन्धान् 'प्रत्यक्षं पश्यति' साक्षात्करोति 'तो' ततस्तेन प्रत्यक्षद्रष्टुत्वेन तज्ज्ञानी भण्यते, क्षमाश्रमणटीकायां त्वियम्, अन्ये त्वाहुः-साकारोपयोगान्तःपातित्वान्न दर्शनं, दृश्यते | मचानेन प्रत्यक्षत्वादवधिवत् , इत्येतदपि न दर्शनं, दृश्यते चानेनेति विरुद्धम् , उभयधर्मान्वयाभावाद्वा न किञ्चिदिति गाथार्थः।।८२४॥ उच्यते-'भण्णई त्यादि कण्ठया // 825 // सत्पदमरूपणादि तु स्वाम्यनुसारेणावधेरिवानुसतव्यमिति // समाप्तं मनःपर्यायज्ञानम् // CRORSCRECCACANNEL CHRONICROSAROGRESS