SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ मनःपर्यायज्ञानम् 5 // 264 // विशेषाव पोषध्यादिऋदिप्राप्तस्यैवेति समुदायार्थः / 'पुण'इत्यादि। 'त'मित्यादि व्याख्यातार्थम् // 813 15 // यदुक्त-तं समासओ चउव्विहकोव्वाचाये मित्येतदाह-'मुणई' इत्यादि / मन्यमानान्ययं जानीते योग्यानि काले त्रिविधेऽपि, कियत्प्रमाणे ?-पल्योपमासंख्येयभागेऽतीतादौ / वृत्तौ पर्यायत आह-'दश्वमणों' इत्यादि / द्रव्यात्मकं मनो द्रव्यमनस्तस्य पर्याया द्रव्यमनःपर्यायास्तान् 'जानाति विशेषभूयिष्ठपरिच्छेदतः // 26 // साक्षात्करोति स्पष्टावभासित्वात् , करतलामलकवत् , तथा पश्यति च सामान्येन, क्व स्थितानित्याह-'तद्गतान्' द्रव्यमनोऽस्तित्वपर्यायसम्बद्धानित्यर्थः, कियत इत्याह-अनन्तान् , अन्यानपि भावान् , किं साक्षात्करोति !, नेत्याह-तेन पुनद्रव्यमनसाऽवभासितान् बाह्यान् मन्दरमकराकरादीन् जानात्यनुमानेन, न साक्षाद्, अमृतवादपि बाह्यस्येति गाथार्थः॥८१६-७॥ आह-अन्यत्र प्रतिपादितं-"जाणइ णपासति' अतः किमुक्तं-'जाणति पासति य' ? इत्यत आह-'सो य किरे' त्यादि / स च किल-मनःपर्यायज्ञानी अचक्षुर्दर्शनेनशेषेन्द्रियोपलब्धिरूपावग्रहादिमतिव्यापारेण तान् पश्यति, क इवेत्याह-'यथा' येन प्रकारेण श्रुतज्ञानी अचक्षुर्दर्शनेन पश्यतीत्युक्तं, विकल्पत इति भावः, एवं परिहते सत्याह-'युक्तं' घटमानकं 'श्रुते' ज्ञातस्वभावे मेर्वादावचक्षुर्दर्शनेन दर्शनमिति प्रक्रमः, किमिति ? 4. परोक्षत्त्वात्तस्य, 'न तु' नैव मनःपर्यायज्ञाने ज्ञातस्वभाव एव युक्तमचक्षुर्दर्शनेनावग्रहादिरूपमतिव्यापारेण तद्दर्शनं, तस्य प्रत्यक्षत्वादिति गाथार्थः / / 818 // उच्यते-'जइ जुज्जए' इत्यादि / यदि परोक्षे श्रुते युज्यते अचक्षुर्दर्शनेन दर्शनं तन्ननु प्रत्यक्षेऽस्मिन् विशेषतः| सुतरां घटते अवग्रहादिलक्षणमतिव्यापाराचक्षुर्दर्शनेन दर्शनं, तथाहि-'ज्ञान' मनःपर्यायज्ञानं यदि प्रत्यक्षं न दर्शनमचक्षुर्दर्शनं ततस्तस्य मनःपर्यायविदः को दोषो ?, नैव दोषः,तस्यान्यविषयत्वात् , अवधिज्ञानिनश्चक्षुर्दर्शनाचक्षुर्दर्शनवत्, अत एव 'जाणइ पासई' यदुक्तमिति गाथार्थः / अन्ये पुनरस्य पश्यत्तामेवं समर्थयन्तीत्याह-अन्ये त्वाहु:-असौ अवधिदर्शनेन पश्यति इति ब्रुवतां को दोषः ? KIRAKAऊन AAAAAAOS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy