________________ विशेषाव०४ कोव्याचार्य आमशौंषध्याद्याः लब्धयः वृत्तौ // 260 // // 26 // *SHRSSCROLA माणा आहारगद्वारे अनाहारकमङ्गीकृत्य पडिवज्जमाणया, मतेः पुनरमी नोक्ताः, तथा ये च भवन्त्यपर्याप्तका अविग्रहोपपातादौ अपर्या-14 सकद्वारे शक्तिमङ्गीकृत्य, पूर्वप्रतिपन्नेषु का वात्यत आह-त एवास्य पूर्वप्रतिपन्ना ये मतेः, किमविशेषण ?, नेत्याह-विकलेन्द्रियान् | असंजिनो मुक्त्वा, तेषां तद्विषयत्वादेवेति गाथार्थः // 781 // प्रागुक्तसम्बन्धं गाथाद्वयमाह-'संफरिसण'मित्यादि भाष्यगाथाः पञ्च प्रतीतार्थाः, नवरं यः किल सर्वतः शृणोति स संभिन्तश्रोताः, यद्वा श्रोतांसि इन्द्रियाणि सम्भिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति स सम्भिन्नश्रोताः, सम्भिन्नान् वा परस्परतो लक्षणतो विधानतश्च सुबहूनपि शब्दान् शृणोति स संभिन्नश्रोतेति // 784-88 // अथ 'चारण' ति पदम्-'अइसयेत्यादि / अतिशयो-यथावत्श्रुताभ्यासजनितो विद्यादिलाभः अतिशयेन चरणे-गमने समर्थाः| प्रत्यलाः, के च ते ? इत्याह-'मुनयः साधवो भगवन्तः, ते च द्विविधा भवन्ति, कथमित्याह-'जंघाविज्जाहिं चारण'त्ति जङ्घाचारणा विज्जाचारणा य, प्रथमसामोपवर्णनायाह-जंघाभ्यां याति प्रथमो-जवाचारणः, किं कृत्वेत्याह'निश्रां कृत्वा' अवलम्बनं कृत्वा | 'रविकरानपि' आदित्यकिरणानपि, मेरुशिखरादाविति गम्यत इति गाथार्थः // 789 // कथमित्यत आह-'एगुइत्यादि / अतः एत| स्मात्कर्मभूमिस्थानाद् ‘एकोत्पादेन' एकक्रमेण 'गतों याति रुचकवरद्वीपं, चैत्यवन्दनार्थमिति गम्यते, ततो रुचकवरात् प्रत्याग| च्छन् द्वितीयेनोत्पादितेन नन्दीश्वरद्वीपं तदाराद्वर्तिनमागच्छति, ततस्तृतीयेनावस्कन्देन इह एति यतो गतः आसीदिति गाथार्थः // 790 // | एवं तावत्तिर्यक्सामर्थ्यम्,अथ ऊर्ध्वमाह-'पढमेणे'त्यादि / प्रथमेन क्रमेणामुतः पण्डकवनं याति, मेरोः शिखरमित्यर्थः, द्वितीयेन नन्दनवनं, प्रथमां मेखलामित्यर्थः तृतीयेन त्विहतीति गाथार्थः // 791 // विद्याचारणसामर्थ्यमप्याह-'पढमेणे'त्यादि / अयमपि प्रथमेनावस्कन्देन मानुषोत्तरं पर्वतमेति, द्वितीयेन नन्दीश्वरमेति-यातीत्यर्थः, तत्परावृत्तः एति ततो नन्दीश्वराद् कृतचैत्यवन्दन इह-भरत XALAAM