________________ NAGAP विशेषाव कोव्याचार्य वृत्ती सरस्ट बाह्याभ्यंतरावधी // 25 // // 251 // निमूलत एव तदस्याभिदध्महे, तथाहि-दावानलो वेत्यादि / यथा दावानलः कुत्रचित्-शुष्ककुशस्तम्बादौ लगति तस्मिन्नेव च समयेऽन्यत्र भूतृणादौ विध्यायति सदेशत्वात् , तथा किमित्यत आह-'तह कोइ ओहिदेसो लग्गति-वद्धइ विज्झायइ-बितिओ नासइत्ति गाथार्थः // 753.54 // विपर्ययमधिकृत्याह-'अभितरलद्वीए तु' इत्यादि // अभ्यन्तरावधिप्राप्तौ तुर्विशेषणार्थः, किं ?, 'तदुभयं' | उत्यादव्ययोभयं नास्ति'न विद्यते 'एकसमयेन एकस्मिन् समये, अदेशावधित्वेन सर्वात्मप्रदेशावधित्वात् , सम्बद्धावधित्वादित्यर्थः, किं तस्त्यिस्यैकसमयेनेत्याह-उत्पादप्रतिपातावन्यतराविति गाथार्थः // 755 // लक्षणमाह-'अभितरलद्धी'त्यादि प्रतीतार्था // 756 // 'उप्पाओं' इत्यादि तस्येत्यभ्यन्तरावधेः 'उत्पादः प्रादुर्भावः, तथा 'विगमोवा' भ्रंशोवा 'समय'त्तिएकैकस्मिन् समये भवेत् , एतदुक्तं भवति-एकस्मिन् समये उत्पाद एव स्याददेशत्वात् प्रदीपस्येव, एवं व्ययोऽपि, अनभिमतप्रतिषेधमाह-न 'उभयं' उत्पादव्ययद्वयमस्यैकसमये स्यात्, किं कारणमित्याह-'य'त्ति यस्मात् 'वस्तुनों' द्रव्यस्य 'एकेन धर्मेण' एकेन स्वभावेन 'समकं' | हेलयैव 'न भवननाशौ' नोत्पादव्ययौ स्यातां, नाङ्गुलिद्रव्यं येनैव धर्मेणर्जु भवति तेनैवर्जुत्वेन व्येति, विरोधात् , धर्मान्तरेण त्वेकसमयमपि भवेत् , यतो यस्मिन्नेव समये तत्तथोत्पद्यते, तस्मिन्नेव चान्यथा व्येति, द्रव्यतया त्ववस्थितमेवास्ते इत्याह'उप्पाए'त्यादि पूर्वार्धन दार्शन्तिकः पश्चादन तु दृष्टान्तः, यस्मिन्नेव समये ऋजुत्वोत्पादस्तस्मिन्नेव वक्रत्वनाशोऽङ्गुलिद्रव्यतया त्ववस्थितैवेति भावनीयं सर्वत्र // 757-758|| तथा च-'उप्पज्जती त्यादि / उदेत्यकौटिल्येनाङ्गुलिद्रव्यमिति शेषः, नश्यति कौटिल्येनैकदा तिष्ठति वेति गम्य ते, अत्राविरोधः, नतु तस्मिन्नेवाकौटिल्यसमये नाशोऽकौटिल्यतायाः, तथा भाविवक्रत्वभवनं वा, विरोधात् , // 759 // तथा चाह-लद्ध' इत्यादि / इह वस्तुनो कौटिल्यादेर्लन्धात्मलाभस्य सतो नाशो युज्यते, लाभश्च-खस्वभावावाप्तिश्च तस्य कौटिल्यादेः समयेन, ततश्च