SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सामान्यविशेषे नयाः // 21 / विशेषाव लादिगुणत्वाद् चूतादिसमूहवत्, सिद्धश्च दृष्टान्त आवयोरिति, एवं गुल्मोऽपि, तत एव हेतोस्तद्वदेवेति, आह च-गुल्मादयोऽपि विशेषा कोट्याचार्य एवं-यथोक्तं, न वनस्पतेर्विशिष्टाः, न भिन्ना इत्यर्थः, मेदे मृदादिमयत्वप्रसंगात् // 32 // अथ व्यवहारं प्रतिकूलं ज्ञात्वा संग्रह उपचयवृत्ती माह-'सामेत्यादि, प्रथमविकल्पे दूषणं-यद्यन्यो नास्त्यसौ निःसामान्यत्वात् खपुष्पवत्, अथानन्यः सामान्यमेवासौ तदनन्यत्वात् // 21 // तत्स्वात्मवत् , सामान्ये वाऽतिपक्षपातितया विशेषोपचारः क्रियते, नचोपचारेणार्थतत्त्वं चिन्त्यते, वस्तुस्थितिस्थितत्वाद् धीधनानां, त स्मादेकमेव तद् द्रव्यमंगलमिति गाथार्थः // 33 // एवं संग्रहेण स्वपक्ष उक्ते व्यवहारनैगमावाहतुः-ननु त्वयाऽप्येवं वनस्पतिर्बकुलचम्पकाशोकपुन्नागनागाग्रसर्जार्जुनादिभ्योऽर्थान्तरो वा कल्प्येतानर्थान्तरो वा ?, अर्थान्तरश्चेत् नास्ति वनस्पतिर्विशेषार्थान्तरभावान्निविशेषत्वात् खपुष्पवत् खरविषाणवदेव वा, अनर्थान्तरश्चेत् त एवासौ, तदनन्तरत्वात् तन्मूर्तिवत्, विशेषेषु वाऽत्यनुरागितया वनस्प तिरित्युपचारः क्रियते,न चोपचारेणार्थतत्त्वंचिन्त्यते,वस्तुस्थितिस्थितत्वाद् बुद्धिविभवानां // 34 // तथा चैतन्मतमास्थायाधुना मूरिराहzणेत्यादि, 'ण विसेसेहिंतो अत्यंतरभूतं सामण्णं वणस्सई'त्ति, क एवमाहेत्याह-व्यवहारः विशेपसामान्ययोःव्यवनाद्धरणाच्च व्यवहारः, तथा नैगमांशश्च, एकग्रहणे ग्रहणं तज्जातीयानामितिकृत्वा, तज्जातीयत्वं च विशेषाभ्युपगमाविशेषात्, कुत इत्याह-उबलम्भाभावाद्, अत्यन्तानुपलब्धेरित्यर्थः,खरविषाणवदिति दृष्टान्तः, तथा व्यवहाराभावात् , शेषं तदेवेति गाथार्थः // 35 // तथाहि-'ये'त्यादि. 'च्याईएहिंतो को सो अण्णो वणस्सई नाम' यो व्रणलेपादावुपयुज्यते, 'तम्हा णत्थि सो विसेसत्यंतरभावाओ-विसेसेहितो (संतरूवेहिंतो) अत्यंतरतणओखपुष्पवत्-आगासकुसुमं वेति गाथार्थः॥३६॥ किं पुनरिमावेवं प्रतिपन्नावित्यत आह-'ज'मित्यादि, यतो नैगमव्यववहारौ लोकसंव्यवहारप्रवणौ, सच त्यागादानादिव्यवहारःप्रायेण विशेषरित्यतस्तौ विशेषग्राहिणाविति गाथार्थः॥३७॥ AAAAAAERONACHCAREKAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy