________________ विशेषाव कोव्याचार्य अवघ्यवस्थान वृत्ती // 242 // // 242 // त्यत आह-'द्रव्ये मेर्वादौ विषये भिनमुहूर्तों मुहर्चान्तर्यावदवधिरविचलित आस्ते इति, तथा 'पर्यायलामे च' मेर्वादिद्रव्यपर्यायोपलम्मे चोपयोगत एव सप्ताष्टौ वा समयानवधेरवस्थानम् , एतदुक्तं भवति-एकगुणोपलब्धिरेतावन्तं कालं, पुनरन्यत्रावश्यं संक्रम इति, अन्ये त्वाहुः-द्रव्येऽन्तर्मुहूर्त्तगुणेष्वष्टौ पर्यायेषु सप्त यथाक्रमंसूक्ष्मत्वादुपयोगोऽप्येवमेवेति गाथार्थः॥७२०॥लब्धितः कियन्तं कालमय मास्ते ? इत्यत आह 'अद्धे'त्यादि, अद्धाए'कालतो यत्र कुत्रचिदवस्थानमवधेर्लन्धिमङ्गीकृत्य कियन्तं कालं यावद् भवतीत्याह-पक्षष्टिसागरोपमाणि, तुशब्दानरजन्माधिकानि, निगमयन्नाह 'कालेणमुक्कोसयं तु एवं' लन्ध्यवस्थानं, जघन्यमाह-एकः समयो जघन्येनावधेलब्ध्यवस्थानं, कथमिति चेद्वक्ष्यति भाष्यकार इति गाथार्थः ॥७२॥'आहार' इत्यादि / / आहारो इत्याधाराद्यङ्गीकृत्यास्यावस्थानं स्यात् तत्रास्याधारः क्षेत्रं विजयादि तत्र कालतोऽवस्थानं-'तेत्तीसं सागरा' इति, तदेव भावयन्नाह 'विजयेत्यादि / विजयादिषपपाते सति (यत्राभवक्षयमवगाढस्तत्र क्षेत्रेऽवधिरवतिष्ठते, द्रव्येषु च) देहपर्यङ्कतूल्यादिष्वित्याधार इति गाथार्थः // 722-723 // उपयोगत आह-दव्वें इत्यादि तत्रान्यत्र वा क्षेत्रे उपयोगः-तद्वथापारो भवेत् द्रव्ये द्रव्यविषये, कियन्तं कालं यावदित्याह-भिन्नमुहूत्त, न परतः, सामाभावात् / तथा 'दब्वें' इत्यादि / तत्रैव मेर्वादौ द्रव्ये गुणे पीतपीतेतरादौ 'सञ्चरतो' व्यापारमनुभवतोऽवधिः, शेषं स्पष्टम् / / सामान्येन दृष्टान्तमभिधाय पश्चादधेन दाान्तिकमभिदधदिदमाह 'जह जहे त्यादि // एतदुपयोगतः, अथ लब्धित आह 'तत्थेत्यादि सुगमा / / 724-27 // 'सों इत्यादि 'स' तदावरणक्षयोपशमः, शेषं गतार्थम् // ‘एको समयो जहण्णेणं' इत्यस्य व्याख्या-'सव' इत्यादि / सर्वजघन्योऽवधिः द्रव्यादिषु भवत्येकं समय, केषामित्याह-सर्वजीवानां नारकतिर्यनरामराणामपि, अपिशब्दलोपात,एवमुक्ते | सत्याह-सपुनः समयः सुरनारकयोर्भवेत् 'कथं' केन-भावनाक्रमेण, नैवेत्यभिप्रायः, क सतीत्याह-'खेत्तकालेसुति, खेत्तयो