________________ विशेषाव कोट्याचार्य 15 द्रव्यादि वृत्ती // 217 // COOLCARECORRECA दिवसपक्षमासादिभिरिति संख्येयः, स चैकवर्षलक्षणोऽपि भवति ततश्च तुशब्दविशेषणात् संख्येयो वर्षसहस्रात् परतोऽभिगृह्यते, अत एवोक्तं-"वाससहस्सं च रुयगंमि"ति, कलनं कालः कलासमूहो वा तस्मिन् संख्येये कालेऽवधिज्ञानगोचरे सति क्षेत्रतस्तस्यैवावधे- 10 वृद्धिनियमः गोचरतया द्वीपसमुद्रा अपि भवन्ति संख्येयाः, अपिशब्दात् महानेकोऽपि तदेकदेशोऽपि, क्षेत्रप्रमाणस्यैव प्रस्तुतत्वात् संख्यायाश्चाप्रयोजकत्वात् , तथा कालेऽसंख्येये-पल्योपमादौ अवधिविषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीप-1 // 217 // समुद्रास्तु 'भक्तव्याः ' विकल्पयितव्याः, कथं ?, कदाचिदसंख्येया एव, इहस्थस्य पुसोऽसंख्येयद्वीपोदधिविषयावधिज्ञानोत्पत्तेः, कदाचित् संख्येया महान्तः, क्षेत्रप्रमाणस्य प्रस्तुतत्वादित्युक्तं, कदाचित्त्वेकस्याप्येकदेशः स्वयंभूरमणतिर्यगवधेः, तस्या रज्जुप्रमाणाम्भोनिधिसंस्थितत्वात् , कालासंख्येयकलघुत्वेन च तदेकदेशोपलब्धेः स्वयंभूरमगविषयमनुष्यबाह्यावधेर्वा, योजनापेक्षया तु सर्वेष्वपि पक्षेषु तुल्यमेव क्षेत्रं विवक्षितकालाऽसंख्येयकाक्रोडितत्वादिति गाथार्थः // 618 // एतामेव भजनां व्याचष्टे भाष्यकार:. 'काले इत्यादि भावितवदनुसतव्येति // 619 // एवं तावत् परिस्थूरं न्यायमङ्गीकृत्य क्षेत्रवृद्धथा कालवृद्धिरनियता कालवृद्धथा च क्षेत्र| वृद्धिरुक्ता // साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यस्य वृद्धौ यवृद्धिर्भवति न भवति वा तदभिधित्सुराहकाले चउण्ह वुड्डी कालो भइयव्वु खेत्तवुड्डीए / वुड्डीए दव्वपज्जव भइयव्वा खित्तकालाओ।६२०। (नि. 36) काले पवढमाणे सब्वे दव्वादओ पवटुंति / खेत्ते कालो भइओ वटुंति उ दव्वपजाया // 321 // भयणाए खेत्त-काला परिवर्ल्डतेसु दब्वभावेसु / दवे वड्डइ भावो भावे दव्वं तु भयणिज्जं // 22 //