________________ द्रव्यलक्षणं विशेषाव कोव्याचार्य वृत्ती 18 // // 18 // नाम रूढं-संज्ञा प्रवृत्ता ज्वलनादीनां देशीतस्तस्य जीवस्य, मंगलमिति नाम सिन्धुविषयेऽग्नेः, अजीवस्य लाटदेशे दवरकवलनस्य, उभयस्य वन्दनमालायाः, स्थापनायाः स्वस्तिकादेः स्थापनामंगलता रूटेति गायार्थः // 27 // द्रव्यलक्षणमाह दवए दुयए दोरवयवो विगारो गुणाण संदावो / दव्वं भव्वं भावस्स भूअभावं च जं जोग्गं // 28 // आगमओऽणुवउत्तो मंगलसदाणुवासिओ वत्ता / तन्नाणलद्धिसहिओऽवि नोवउत्तोत्ति तो दव्वं // 29 // जइ नाणमागमो तो कह दव्वं दव्वमागमो कह णु। आगमकारणमाया देहो सहो य तो दव्वं // 30 // 'ववते 'दव्वं'ति सर्वपदेषु सम्बन्धः, किमुक्तं भवति ? 'दुद्र गतौ ततश्च द्रवतीति द्रव्यं, खपर्यायान् पाति रक्षति चेति मावः, तथा द्रूयत इति-खपर्यायैर्गम्यते मुच्यते चेति भावना, 'विवक्षातश्च कारकाणी ति, तथा 'दोरवयवो'त्ति 'द्रु' इति सत्ता तस्या अवयवो विकारो वा, तथा गुण्यन्त इति गुणाः, संख्यायन्त इत्यर्थः, तेषां संद्रवणं संद्रावः, समुदायभवनमित्यर्थः, ततश्च रूपादिसमुदायो द्रव्यमिति भावनीय, तथा भव्य-योग्यं भावस्य-भाविनः पर्यायस्य यत्तद् द्रव्यमिति वर्त्तते, तथा “भूतभावं चेति | भूतो भावो यस्य तत्तथा तच, चशब्दात् पुरस्कृतपश्चात्कृतभावं वेति गृह्यते, तथा 'जं जोग्ग'ति इह तु विशेषेण भव्यमधिक्रियते, योग्यं यदित्यर्थः, द्रव्यं च तन्मंगलं चेति द्रव्यमङ्गलमिति गाथार्थः // 28 // तच्च द्वेधा-आगमनोआगममेदात्, तत्र आगमतस्तावदाह'आगेत्यादि, 'आगमतः' आगममाश्रित्य, आत्मदेहशब्दानधिकृत्येत्यभिप्रायः, द्रव्यमंगलमिति गम्यते, कोऽसावित्यत आह-अ नुपयुक्तो वक्तेति सम्बन्धः,उपयोगशून्यो मंगलाध्येता,ज्ञानशून्यः प्रज्ञापक इतियावत् , किंविशिष्ट इत्यत आह-'मंगलशब्दानुवासितो मंगलशब्दार्थज्ञानावरणक्षयोपशमसंस्कारानुरञ्जितमनाः, तज्ज्ञानलन्धिमानित्यर्थः, ननु यदि तज्ज्ञानलन्धिमान् किमिति तर्हि द्रव्यमं CARRORESARKARI