________________ विशेषाव कोव्याचार्य पना वृत्ती SAGORSSEISUKOHOX पज्जायाणभिधेयं ठिअमण्णत्थे तयस्थनिरवेक्खं / जाइच्छिअंच नामं जावदव्वं च पाएणं // 25 // नामस्थाजं पुण तयत्थसुन्न तयभिप्पारण तारिसागारं / कीरह व निरागारं इत्तरमियरं व साठवणा // 26 // जह मंगलमिह नाम जीवाजीवोभयाण देसीओ / रूढं जलणाईणं ठवणाए सोत्थिआईणं // 27 // लक्षणं इह पर्यायाः-अभिन्नार्थप्रतिपादकाः इन्द्रः शक्रः पुरन्दरो मघवान् वज्रपाणिरित्यादयोऽभिधेयपरिणामास्तैरनभिधेयमिति पर्यायानभिधेयं, किंभूतमिति चेत-स्थितं भृतकदारके यदिन्द्रनाम-इन्द्रसंज्ञेति सामर्थ्याद् गम्यते,कथं स्थितमित्याह-'स्थितमन्यार्थे' प्रतिष्ठितमन्यस्मिन् पिण्डे, परमार्थतो देवाधिदेवस्थानात् , अथवा स्थितमन्वर्थे-प्रतिष्ठितमन्वर्थसंज्ञानिवन्धनवतीन्द्राथे, इन्दनाद् इन्द्र इतिकृत्वा, अत एवाह-'तदर्थनिरपेक्षं इन्द्रार्थनिरपेक्ष,संज्ञाव्यवहारायारोप्यमाणत्वात् ,इदं नाम्नो लक्षणं, अथवा यादृच्छिकं नाम,अन्य-14 IG // 17 // त्रावर्तमानत्वात, डिस्थवत् , विवक्षया देवदत्ताद्यप्यन्वर्थशून्यत्वात् , तथा यावद्रव्यमावि च यत्, किं यावद्रव्यभाव्येव 1, नेत्याहप्रायेण-प्रायशो बाहुल्यमङ्गीकृत्य कस्यचिदपान्तराल एवापनीयमानत्वात् , यत्तु सूत्रोपदिष्टं 'नाम आवकहियति तत्प्रतिनियतजनपदसंज्ञामेवाङ्गीकृत्य, यथोत्तराः कुरव इत्यादि // 25 // 'ज'मित्यादि, यत्पुनः, पुनःशब्दो नामस्थापनाया लक्षणभेदप्रतिपादनार्थः, | यत्पुनर्वस्तु तदर्थशून्यं सद्भावार्थशून्यं सत् तदभिप्रायेण-भावेन्द्राभिप्रायेण क्रियते-स्थाप्यते, काष्ठपुस्तचित्रकक्षिनिक्षेपादाविति | गम्यते, कथं तदभिप्रायेणेत्याह-तारिसागारं निराकारं प्रायेण वा, वाशब्दस्य भिन्नक्रमत्वात् , कियन्तं कालमित्याह-इत्वरं स्तोकं कालं'इतरं वति यावत्कथितं कालं, तत्रेत्वरकालमिह स्याद्, इतरं तु देवलोकादौ, तिष्ठतीति स्थापनेतिकृत्वा, 'सा ठवण'त्ति 8 तद्वस्तु स्थापना, स्थापना चासौ मङ्गलं च स्थापनामङ्गलमिति गाथार्थः // 26 // उभयत्रोदाहरणमाह-'जहे'त्यादि, यथा मङ्गलमिह 4060*******SHIRTS ASSISK