________________ मंगल | शब्दार्थः // 16 // विशेषाव लातीति मङ्गलं-धर्ममादत्ते, धर्मोपादानहेतुरित्यर्थः, इति गाथार्थः // 22 // अहवेत्यादि,अथवा निपातनान्मङ्गलं क्रियते, कथमिकोट्याचार्य | त्याह-इष्टार्थप्रकृतिप्रत्ययतः,तत्र इष्टो यथा विवक्षितोऽथों यासां प्रकृतीनां ता इष्टार्थाः प्रकृतयः, तद्यथा-'मकि मण्डने 'मन् ज्ञाने' 'मदी हर्षे 'मुद मोदखमगतिषु 'मह पूजायां' इत्येवमादि, प्रत्ययस्तासामलच् इति, ततश्च मङ्गलमिति रूपं भवति,तेनैतदुक्तं भवतिमक्यते-अलंक्रियतेऽनेन शास्त्रमिति मङ्गलं, एवं मन्यते-बायतेनानेनाव विघ्नो न भवतीत्येवं प्रतीयत इति भावना, तथा माद्यन्ति-हहै प्यन्ति, तथा मुदिता भवन्ति,एवं शेरते-अनेन विनामावतो निष्पकम्पा भवन्तीति, तथा गम्यते-अन्तं नीयतेऽनेनेति मङ्गलं, एवं मह्य न्तेऽनेनेति मङ्गलमेवमादि, एवं शास्त्रे-व्याकरणे सिद्ध-प्रतिष्ठितमुपलब्धं वा यन् मङ्गलं यथा येन प्रकृतिप्रत्ययविधानेन तद्यथायोग| यथाभिप्रेतार्थमायोज्यं आयोजनीयं, स्वविद्यापरिज्ञानफलत्वात् शास्त्राध्ययनस्येति / अथवा निपातनान्मङ्गलं,किंविशिष्टाद्-इष्टार्थों प्रकृतिप्रत्ययौ यस्मिन् तत्तथा तस्माद, किमत आह-'सत्थे इत्यादि, पच्छदं पूर्ववत्, अथवा निपातनाद् मङ्गलं, किमुक्तं भवतीत्याह| इष्टार्थप्रकृतिप्रत्ययोपादानात, शेष प्राग्वत् , अथवा निपातनान्मङ्गलं, यदा चैवं तदा 'इहत्थे'त्यादि सर्व पठनीयं भावनीयं चेति गाथार्थः |॥२३॥'मंगे'त्यादि, मांगालयतिभवाद्वेति मङ्गलं, गालनं-अपनयनं भवः-संसारः,शास्त्रस्य वा मा भृद् गालो-विघ्नो भविष्यतीति, गलनं गालो नाश इत्यर्थः, मार्गलयनाद्वा मङ्गलं,स च सम्यग्दर्शनादिः,उपसंजिहीर्षुराह-इह-अस्मिन् प्रस्तावे एवमादि नैरुक्ताः-शब्दविदो भाषन्ते-व्याचक्षते शास्त्रवशतो-व्याकरणानुसारेण, क्रियदत्र पुनर्व्याख्यास्यामः // साम्प्रतं 'तत्त्वपर्यायभेदैर्व्याख्ये ति मेदत आह-'नामाइ चउन्विहं तं चेति गाथार्थः॥२४॥ तत्र नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेत्यतो नामलक्षणाभिधित्सया तावदिदमाह SACREATUS