________________ अवधेरुत्कृष्ट विशेषाव० कोट्याचार्य, वृत्तौ // 21 // // 213 // STORRRRRRRRAHASE अइगंतूण अलोग लोगागासप्पमाणमेत्ताई / ठाइ असंखेजाई इदमोहिक्खेत्तमुक्कोसं // 607 // सामथमेत्तमेयं जइ दट्ठव्वं हवेज पेच्छेज्जा / न य तं तत्थाथि जओ सो रूविनिबंधणो भणिओ // 608 / / वईतो उण बाहिं लोयत्थं चेव पासई दव्वं / सुहुमयरं सुहुमयरं परमोही जाव परमाणु // 609 // भणियं जहण्णमुक्कोसयं च खेत्तं विमज्झिमं सेसं / एयस्स कालमाणं वोच्छं जं जम्मि खेत्तम्मि // 10 // 'सव्वेत्यादि। सर्वेभ्यो-विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एवं बहवः सर्वबहवः, न भूतभविष्यद्भ्यो, नापि च शेषजीवेभ्योऽसम्भवात् , अग्नयश्च ते जीवाश्चाग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, निर्गतमन्तरं यस्मात् क्षेत्रात्तद् निरन्तरं | सन्ततमविच्छेदेन नैरन्तर्येणेत्यर्थः 'यावद्यावत्प्रमाण क्षेत्र(बि) भृयुर्बभ्रुर्वा, व्याप्तवन्त इत्यर्थः, भूतकालनिर्देशश्चाजितस्वामिकाले एव प्रा यः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसपिण्यामित्यस्यार्थस्य ख्यापनार्थः, सर्वदिशो गच्छतीति सर्वदिग्गं-सर्वा दिशो व्याप्नोति, सर्वदिशमित्यर्थः, परमश्चासाववधिश्च परमावधिः, क्षेत्रं अनन्तरव्यावर्णितं प्रभूतानलजीवप्रमितमङ्गीकृत्य निर्दिष्ट' प्रतिपादितो गणधरादिभिरिति, ततश्च परमावधेः पर्यायेणैतावत् क्षेत्रमिदमित्युक्तं भवति, अथवा सर्वबह्वग्निजीवा निरन्तरं यावत् भृतवन्त क्षेत्रं सर्वदिग्गं एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थः प्राग्वत् , अयमक्षरार्थः // 601 // साम्प्रतं साम्प्रदायिकमर्थ भाष्यकार आह–'अव्वाघाए' इत्यादि / अव्याघाते-गर्भव्युत्क्रान्तिकपुरुषोत्कृष्टसम्पद्युतके काले सर्वासु कर्मभूमिषु-सर्वासु धर्माचरणप्रवृत्तिषु क्षितिषु पञ्चसु भरतैरवतेषु विदेहेषु चेत्यर्थः, 'यत्' यस्मात् 'तदारम्भाः ' अग्निसमारम्भाः सर्वबहवो विवक्षिताधस्त्योपरिमेभ्यो बहवो 'मनुष्याः ' पुरुषा' भवन्ति' सम्पद्यन्ते, कश्चासौ काल इत्याह