________________ श्रुते साद्यन्तादिभेदाः विशेषाव० कोट्याचार्य वृत्ती // 199 // // 199 // RRRRRRRRRES तथा 'तदज्ञानं वा श्रुताज्ञानं वा, वाशब्दादवधिर्वा, तथा केवलज्ञानं वा, वाशब्दान्मनःपर्यायज्ञानं वेति गाथार्थः॥५४५।। तस्मातत्तावज्जीव एवेत्युक्ते सत्याह-'तं जई त्यादि / 'तं सुयं जति जीवों तो 'तन्नासे' सुतणासे होउ जीवस्स, अनर्थान्तरभूतत्वात् , उच्यते, 'होउ' ति द्विरावय॑ते, भवतु कथश्चित्तपर्यायविशिष्टस्य नाशः, किन्तु 'सव्वसो नत्थि' सर्वेण-सर्वात्मना नास्ति, तन्नाशेऽस्य नाश इति प्रकृतं, यदसावुत्पादव्ययधुवधा वर्तते, तथाहि-यस्मिन्नेव समये विनश्यति तस्मिन्नेव 'समये उत्पद्यते, नापि च नश्यति, त्रिस्वभावत्वादङ्गुलिद्रव्यवत् , तथाऽनन्तपर्यायश्च, यदसौ क्वचिज्ज्ञानी क्वचिदनानी च, ज्ञानाज्ञानयोश्चानन्तपर्यायता तत्पदस्थानकस्योक्तत्वात् ,किमात्मैवैवं ?, नेत्याह-सव्वं चिये'त्यादि / सर्वमेव प्रतिसमयं पर्यायत उत्पद्यते नश्यति चेति नित्यं च द्रव्यतः, कश्चेत्थं गुण इत्याह-एवमेव सुखादिसद्भावः, तथाहि-नैकान्तनित्ये सुखादिसद्भावः, तस्य सहकारिकारणजन्यत्वात् , तत्कृतोपकारापेक्षानपेक्षत्वे चानित्यत्वतद्वैयर्थ्यादिदोषकोटीकोटिप्रसङ्गात् , एवं स्वधिया दुःखादावप्यायोजनीयमिति, नाप्येकान्तानित्ये अविकारित्वाज्जन्मानन्तरमृतवत् , स्थितास्थितविकल्पद्वयाद्वेति, अस्मत्पक्षे तु सकलजनप्रकटोऽयमिति प्रथमो भङ्ग इति गाथार्थः॥५४६-७॥ द्वितीयभङ्गस्य शून्यत्वात् तृतीयमाह-'अहवेत्यादि / अहवा सुत्तं-मिच्छासुयं निव्वाणभाविणो जीवस्स अणादीयं भव्यस्ववत्, स| पर्यवसानं तु सम्यक्त्वप्राप्तः, चतुर्थमाह-जीवत्वमिव नियतं 'सेसाणं' अनिर्वाणभाविना-अभव्यानामनाद्यपर्यवसानं चेति द्रव्यत|श्चतुर्भङ्गीति गाथार्थः // 548 // 'खेत्त' इत्यादि / क्षेत्रे विचार्यमाणे भरतैरावतान्यङ्गीकृत्येदं सादिसपर्यवसितं, काले तु भक्ते च 'भ रहेरवतेसु दो समाउ पडुच्च ओसप्पिणीउस्सप्पिणीउ सादिसपज्जवसियं' भावे पुनर्विचार्ये 'पन्नवर्ग'ति प्रज्ञापकोपयोगमाश्रित्य प्रजानीयान् वा भावानाश्रित्य सादिसपर्यवसितम् // 549 // कथमित्याह-'उवओगे'त्यादि, 'उपयोग' इत्युपयोगात्मकत्वात् श्रुतस्य ज्ञाप KAROBARockeBRECRes