________________ विशेषाव रीतिः वृत्ती // 176 // धूमेऽ(मा)ग्निज्ञानोपचारात्,प्रत्यक्षहेतौ घटे प्रत्यक्षोपचारवद् ,एवः सामान्यः स्थितपथः॥४६९॥ परमतमाशिशङ्कयिषुराह-अन्ये सूरयःला | सादृश्यादि प्रभाषन्ते इत्यनुमानम् , तद्यथा-सारिक्खें त्यादि / 'सारिक्वंति सादृश्यानुमानमप्रत्यक्षेऽपि भ्रातु नं स्मृतिरूपत्वात् , विपक्षानुमानमहेर्नकुलज्ञानमेवमादि, उभय इत्यश्वतरात् स्वराश्वयोरित्येवमादि, उपमानं गोगवय इत्येवमादि, आगमात् स्वर्गा-15) दावित्युच्यते, एवं सर्वमेतदनुमानं नोपन्यस्तानुमानाद् व्यतिरिच्यते, सम्बन्धादन्यतः प्रतिपत्तेः, न चेत् सम्बन्धादन्यतः प्रतिपत्ति // 176 // | द्वितीयस्तर्हि दोष इति, किश्चिद्भेदेनास्यास्माद् भिन्नत्वाददोष इति चेत्, आह-किञ्चिद्भेदेन च भिद्यमानं न तत् पश्वधा स्थास्य-18 तीति गाथार्थः // 470-71 // अपिच-'इंदिए'त्यादि, इन्द्रियमनोनिमित्तमपि लब्ध्यक्षरं नानुमानाद् भिद्यते, आस्तां सादृश्यादीति, | यद्येवं प्रत्यक्षव्यपदेशः कथमित्युपचाराद्, आह च-किंत्विन्द्रियमनसोरन्यल्लिङ्गान्तरं नापेक्षत इति प्रत्यक्षोपचारः केवलं, न तत् साक्षा| दुत्पत्तेरिति गाथार्थः // 472-73 // अपिच-इयमनुमानस्य किश्चिद्विशेषोपलब्धिः–'नापुण' इत्यादि / नापुनरुक्ता, सादृश्योपमानयोमिथोऽभेदात् सर्वत्र सादृश्याविशेषाच, तथा न समस्तलिङ्गविशेषोपसंग्राहिणी, न चेयं गुणाय, अतः किमनया नियमितपश्चविधप्रमाणयेत्थं विशेषोपलब्ध्या परिकल्पितया , कस्यचिदर्थस्यासिद्धेरेकमेवास्तु तदिति गाथार्थः॥४७४|| या चेयं क्वचिद् त्रि| विधानुपलब्धिः परिकल्प्यते, तद्यथा-अत्यन्तानुपलब्धिः खरविषाणादेरिव,तथा सामान्यानुपलब्धिः-महामाषराशिप्रक्षिप्तमाषकणादेरिव, तथा विस्मृत्यनुपलब्धिरयमसावित्यनुपस्थानमस्मरणतः, इयम्-'नाहिगते'त्यादि, इयमनुपलब्धिलब्ध्यक्षराधिकारे 'नाधिकृता' न प्रस्तुता, किं तर्हि ?-उक्तद्वयमेवाधिकृतं, अथ मनुषे विपक्ष इतिकृत्वा मता, उपलब्धेरन्या अनुपलब्धिरिति व्युत्पत्तेः, क्षणमाह-ततः सर्वानुपलब्धिर्वाच्या भवता, अतिसंनिकृष्टाविप्रकृष्टभेदमिन्नत्वात्तस्याः, यद्वा आदिग्रहणेन वाच्या, न पुनयुक्त