SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती // 14 // मध्यान्तमेदादिति समासः तस्यान्तरमिति विग्रहः तद् न मङ्गलम्, इह-अस्मिन् मङ्गलप्रघट्टे 'अर्थतः' अर्थगत्या 'पसत्तं प्रसक्तं मंगलतत्त्र'ते' तव सूरेः, किं कारणं !, मङ्गलेनाव्याप्तत्वादनभिमतशास्त्रान्तरवत्, इदं परिजिहीर्षोः सूरेर्मतमाशङ्कयाह-यदिवा-अथ चेदं विशेषेण यसार्थकता सर्व शास्त्रं मङ्गलमिह अतः किं तृतीयग्रहणं ? येनोच्यते 'तं मंगलमाईए' इत्येवमादि, अपान्तरालामङ्गलत्वं वा प्रतिपद्यस्व मङ्गलत्रयग्रहणं वा मा कृथा इति चोदकगाथार्थः॥१८॥ गुरुराह–'सत्थेत्यादि, शास्त्रे सम्पूर्णे मंगलात्मके बुद्ध्या त्रिधा 'विभक्ते' विच्छि- 4 // 14 // न्ने सति तदन्तरालपरिकल्पन' शास्त्रापान्तरालविभजनं कुतः? कस्मात् ? येन तदव्याप्तस्तत्रामंगलता स्यात् , ननु सुविवेचितवक्तारोधीधना भवन्ति, नहि धर्मिण्यसति धर्मा भवितुमर्हन्ति, प्रयोगः- यत्सम्पूर्ण त्रेधा विवक्ष्यते तस्यापान्तरालाभावः, तद्यथा मोदक | स्य, तथा च शास्त्रमिति तदसम्भवः, अतश्चापान्तरालद्वयासम्भवः, 'सव्वं चेत्यादि, पच्छदं कंठं, सर्व शास्त्रं मंगलं निर्जरार्थत्वात् तपोवदिति गाथार्थः // 19 // एवं तावच्चोद्यद्वयं परिहृतं, अथ यदुक्तं प्रथमं चोद्यं परिहरता 'सत्थम्मि मंगले किं अमंगलं'ति तदधिकत्याधुना विप्रतिपन्नमतिश्चोदक आह–'जईत्यादि, यदि मंगलं स्वत एव शास्त्रमिष्यते अनवस्थादिभयात् अतो किमिह-शास्त्रे मंगल-* ग्रहणं, येनोच्यते 'तं मंगलमाईए' इत्येवमादि', कं हि तत्तत्रोपादीयमानमतिशयमादत्त इत्युक्तं भवति, आचार्यः पश्चादर्धमाह-शिष्य|स्य मतिः शिष्यमतिः तस्या मंगलपरिग्रहः सोऽर्थो यस्याभिधानस्य तत्तथा शिष्यमतिमंगलपरिग्रहार्थमेव शिष्यमतिमंगलपरिग्रहार्थ मात्र, तदभिधान-मंगलाभिधानं, एतदुक्तं भवति-नार्थान्तरभूतमिदमुपादीयते, किन्तु मंगलमेतदित्येवं ज्ञाप्यते, मंगलरूपेऽप्यस्मिन् | तद्धिया खलु व्यवहरन्तं व्यवहारिणमिदं व्यवहारयति, कथं नु नामामुतो मंगलमिदमित्येवं शिष्योऽभिगृह्णीयाद् , अतो भिन्नमंगलोपादानमिति यावदिति गाथार्थः // 20 // किं मंगलमपि अतवुझ्या गृह्यमाणं मंगलकार्य न करोति', उच्यते, न करोति, तथा च GACASSECONOGRA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy