________________ वृत्ती विशेषाव०६ अतिपतेः, नत्वितरे, तेषामज्ञानित्वात् , निश्चयनयमतेन तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति,प्रतिपद्यमाना अपि,सर्वत्रा- मतौ सत्पकोट्याचार्य | भिमुखे सति ज्ञानाभ्युपगमात् सम्यग्दर्शनसहचारित्वात् मत्यादिलाभस्य क्रियाकालनिष्ठाकालयोरमेदार , मनःपर्यायज्ञानिनस्तु पूर्वप्रतिप- दादीनि न्ना एव,न प्रतिपद्यमानकाः,तस्य भावयतेरेवोत्पत्तेः,केवलिनां तूमयाभाव इति, मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, // 158 // प्रतिपतिक्रियाकाले मत्याद्यज्ञानाभावात् क्रियाकालनिष्ठाकालयोश्च भेदात अज्ञानभावे च प्रतिपत्तिक्रियाऽभावादिति / 'दंसणं चि,तच्चतुर्की // 158 // | चक्षुरचक्षुरवधिकेवलभेदात् ,तत्र ये चक्षुर्दर्शनितोऽचक्षुर्दर्शनिनश्च ते दर्शनलब्धिमङ्गीकृत्य पूर्वप्रतिपन्नाः सन्त्येव, इतरे तु भाज्या इत्यविरुद्धमेतत्,चक्षुर्दर्शनाचक्षुर्दर्शनोपयोगं त्वङ्गीकृत्य पूर्वप्रतिपन्ना एव सन्ति, नेतरे, विरुद्धत्वात् ,विरुद्धत्वं चास्यानाकारोपयोगत्वाद् अनाकारोपयोगे च लब्द्ध्युत्पत्तिप्रतिषेधात्, उक्तं च-'सव्वाओ लद्धीओ सागारोवयोगोवउत्तस्स उप्पज्जति' वक्ष्यते चोपयोगद्वार एतदिति,अवधि-४ दर्शनिनस्तु प्राक्प्रतिपन्ना एव, केवलिनस्तु उभयविकलाः। 'संजय'त्ति संयतः प्राप्रतिपन्न एव। 'उवओग'त्ति, स साकारोऽनाकारश्च, साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्त्येव, इतरे तु भाज्याः, अनाकारोपयोगिनस्तु प्राक् प्रतिपन्ना एव / 'आहार'त्ति आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे भाज्याः, अनाहारकास्त्वपान्तरालगतौ पूर्वपतिपन्नाः सम्भवन्ति, न वितरे / 'भासग'त्ति भाषालब्धिमतो भाषकास्ते भाषमाणा अभाषमाणा वा पूर्वपतिपन्ना नियमतः सन्ति, इतरे भाज्याः, तल्लब्धिशून्याश्चोभयविकलाः / 'परित्तइति परीत्ताः-प्रत्येकशरीरिणस्ते प्राक् प्रतिपन्ना नियमतः सन्तीतरे तु भाज्याः,साधारणास्तूभयविकलाः। 'पजत्त'त्ति, ये पद्भिः पर्याप्तिभिः पर्याप्तास्ते नियमतः पूर्वप्रतिपन्नाः, इतरे तु भाज्याः, अपर्याप्तकास्तु षट्पर्याप्त्यपेक्षया पूर्वप्रतिपन्नाः सम्भवन्ति, नवितरे / 'सुहुमति, सूक्ष्मा उभयविकलाः, बादराः पूर्वप्रतिपन्नाः सन्ति नियमादितरे तु भाज्याः। 'सण्णि'त्ति, तत्रेह दीर्घका 505