SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ASESOR विशेषाव इति विमर्षः मार्गणा त्वन्वयधर्मप्रार्थना, 'गवेषणा' हेयधर्मप्रार्थना, संज्ञानं संज्ञा व्यञ्जनावग्रहादुत्तरकालभावी प्रत्ययः, स्मृतिस्तु स्म-[दू आभिनिवाकोव्याचार्य रणं-प्रागुपलब्धप्रत्यभिज्ञानं, मननं मतिः कथञ्चिदर्थपरिच्छित्तावपि अपूर्वसूक्ष्मतरधर्मालोचनरूपा बुद्धिः, प्रज्ञानं प्रज्ञा-विशिष्टतरक्षयो धिकैकार्थाः वृत्ती तपशमाहितप्रभृतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरेवेत्यर्थः / एते विशेषाः, सामान्यमाह-सर्वमेतदाभिनिवोधिकमिति गाथार्थः // 153 // // 396 // अतो यद्यद् अभिधीयते तदाह-'होइ'इत्यादि, सुगमा, नवरं मतिप्रज्ञे सर्वमेव मतिज्ञानं, शेषभेदास्त्वीहा, सर्व चैत- // 153 // न्मतिज्ञानान भिद्यते, वचनार्थपर्यायत्वादिति // 397 // तथाहि-'मती'त्यादि, मत्यादिवचनचतुष्टयं वचनपर्यायाः सम्पूर्णवस्तुवाचकत्वात् , यास्त्ववग्रहादिसंज्ञाः सर्वेऽर्थपर्यायाः, अथवा सर्व एवामिलापा वचनपर्यायाः, इतरे वितरे सर्ववस्तूनां, एवं मतावपीति गाथार्थः // 398 // 'सव्वं वे'त्यादि, अथवा इह-अस्मिन् प्रस्तावेऽवग्गहादिवयणेणंति पृथक्पृथगवग्रहादीनामन्यतमेनापीति 'सव्वं आभिणिबोहियं संगहिय'ति समस्तं मतिज्ञानमाक्रोडितमित्यर्थः, कया ? चेत्, उच्यते-गुणसंज्ञया' अन्वर्थसंज्ञया वचनव्यु| त्पत्येतियावत , सा चेयम्-अवग्रहणमवग्रहः, तथाहि-सामान्यार्थावग्रहवचनेनेहापायधारणाः संगृहीताः, मतिचेष्टापायाविच्युतिरूपत्वात , पङ्कजवचनेनेव नीलोत्पलोत्पलमृणालनालनालिककल्हारकमलादयः, सर्वत्रान्वर्थाविशेषात् // 399 // तथा चाह-'उग्ग हण'मित्यादि, अयमत्र भावार्थ:-अवग्रहणमवग्रह इविकृत्वा यथाऽसौ सामान्यस्य तथेहादयोऽपि यस्य यावतश्चार्थस्य ततः अहा विसिह सर्व सामान्येन 'तयं ईहादि सव्वमवग्गहोत्ति स्थितं, एवं ईहा द्वितीयो मतिमेदो यत्-यस्मान्मतिचेष्टारूपो वर्तते, अतो म| तिव्यापारः, तत्रावग्रहादि सर्व वर्चते, सर्व तदीहा वर्तत इत्यभिप्राय इति गाथार्थः॥४००॥ तथा—'अवगमण'मित्यादि, अवगमनं / अपायो येन वर्तते अतः अर्थावगमस्तत्सर्वमवग्रहेहाधारणादि वर्चते, तथा धरणं धारणेतिकृत्वा, चौ पूरणार्थों, अतः तदवग्रहादि सर्व ONGCRORSCASSESEX IS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy