SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ | मंगलत्रयं विशेषाव कोट्याचार्य वृत्ती // 11 // तं मंगलमाईए मज्झे पज्जन्तए य सत्थस्स। पढमं सत्थत्थाऽविग्घपारगमणाय निद्दिढे // 13 // तस्सेव य थेज्जत्थं मज्झिमयं अंतिमपि तस्सेव / अब्बोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स // 14 // तन्मङ्गलमादौ शास्त्रस्य क्रियते, तथा मध्ये पर्यवसाने चेति / एकैककरणप्रयोजनमाह-प्रथमं शास्त्रार्थाविघ्नपारगमनाय निर्दिष्ट| मिति गाथार्थः॥१३॥ तस्यैव-शास्त्रार्थस्य प्रथममङ्गलकरणप्रसादादविघ्नेन परं पारमुपागतस्य सतः स्थैर्यार्थ मध्यमं, निर्दिष्टमिति वर्त ते, तथाऽन्त्यमपि तस्यैव मध्यममङ्गलकरणात् तथाभूतस्य सतः अव्यवच्छित्तिनिमित्तं, कस्येत्याह-शिष्यप्रशिष्यादिवंशस्य, निर्दिष्टमिति | वर्तते, नात्मार्थमेव शास्त्रावगतिरिष्यत इति गाथार्थः॥१४॥ यदुक्तं 'तं मंगलमाईए' इत्यत्राह चोदकः मंगलकरणा सत्थं न मंगलं अहव मंगलस्सावि / मंगलमओऽणवत्था न मंगलममंगलत्ता वा // 15 // तत्र शास्यन्ते जीवादयोऽनेनेति शास्त्रं, तच्छास्त्रं धर्मित्वेनोपादीयते, न मंगलमिति साध्यो धर्मः, धर्मधर्मिसमुदायः पक्षः, | कुत इत्याह-मंगलकरणात् ,कोऽभिप्रायः १-मंगलकरणान्यथानुपपत्तेः, अमङ्गलाविनामृतत्वान्मंगलविधानस्येत्युक्तं भवति, एष एको दोषः, अथ द्वितीयदोषनिदानमाह-अथवा (च) मंगलस्यापि मंगलमुपादीयते, ततश्च नामंगलाविनाभृतमेव मंगलविधानमित्यत आह-'अतः एवं च सति-यदि मंगलाविनाभूतमेव मंगलविधानमिति भावना, अनवस्थानं अनाश्वासोऽविराम इतियावत, प्रयोगःशास्त्रमंगलं अन्यमंगलसहायं सदात्मकार्य करोतु मंगलत्वात् शास्त्रवत्, भवति च विशेषे पक्षीकृते सामान्य हेतुर्यथाऽनित्यो वर्णात्मकः शब्दः शब्दत्वान्मेषशब्दवत्, एवमन्यमंगलमपि मंगलत्वाच्छास्त्रमंगलवत् , एवमन्यदन्यन्मंगलमपि मंगलत्वाच्छास्त्रमंगलवदित्यनवस्था। अथैवमनिवारितप्रसराऽप्यापतन्तीयं नाभ्युपेयते ततस्तृतीयदोषमाह-'न मंगलं'ति न शास्त्रमंगलं मंगलं, प्रयोगः-यदन्यमंगलशून्यं त 405CARAKAKAL
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy