________________ विशेषाव कोट्याचार्य वृत्ती ग्रहणनिसगयोर्योगौनिरन्तरता // 142 // // 14 // SCUSSAULA तरति एकैकेनान्तरित-व्यवहितमेकान्तरं तथा दृष्टत्वादेकान्तरोपवासवत् स्थापना-प्रमो ग्रमो प्रमो, ततः को दोषः ? इत्याह- तेषां चैवं मन्तृणां 'विच्छिन्नावलिरूवो होइ धणी', कुत एतत् , ग्रहणान्तरितत्त्वान्निसर्गस्य निसर्गान्तरितत्वाच्च ग्रहणस्य, ग्रहणसमयेऽश्रवणात्, किमेतावानेव तेषां दोषः 1 इति, नेत्याह-'सुयविरोधों' श्रीमन्महावीरवर्द्धमानस्वामिमतानुसारिभगषदाचार्यश्यामस्वामिप्रणीत प्रज्ञापना'ऽध्ययनप्रसिद्धाज्ञालङ्घनं च, 'अणुमसयमविरहियं गेण्हती'ति तद्वचनात् , तथा हीदं सूत्रं प्रतिसमयग्रहणप्रतिपाद| कत्वात् प्रतिसमयनिसर्गप्रतिपादकमपि बोद्धव्यं मसृणशब्दानुभवात् , अथ ब्रूयुर्भवतोऽप्येवं व्याख्यातुस्तदुक्ताज्ञाखण्डनमेव सूत्रान्तरविरोधादिति, 'संतरं निसिरइ नो निरन्तरं, एगेणं समएणं गिण्हइ एगेणं समएणं मुश्चती'ति सूत्रप्रश्रवणात् , तथा हीदं सूत्रं सान्तरनिसर्गप्रतिपादकत्वात् सान्तरग्रहणप्रतिपादकमपि विज्ञातव्यं, न च स्खलितशब्दश्रवणानुभवः, स्तोकत्वेन सूक्ष्मत्वादपान्तरालकालस्येति गाथार्थः॥३६६॥ अथैतत्सूत्रं गाथयोपनिबध्नन् पर आह-'आह सुये चियेत्यादि, गतार्था, नवरं 'सो'त्ति वक्ता // 367 // अथ | सूत्रद्वयमपि विषयविभागेऽध्यवतिष्ठापयिषुराह-'अणुसमय'मित्यादि, समयं अनु-पश्चादनुसमयं, किमुक्तं भवतीत्यत आह-नान्त- | | रितमनन्तरोपवासवदित्यनन्तरितमव्यवहितमितियावत् ग्रहणं-वाग्द्रव्योपादानं 'भणितं' उक्तं प्रथमसूत्रे भगवता आर्यश्यामेन, | 'यतः' यमात् , ततः किमित्यत आह-'विमोक्षोऽपि निसर्गोऽपि तेषां 'युक्तो घटमानकः 'निरंतर एव' अनुसमयमविरहितमेवेति-| यावदिति, कोऽर्थः 1, कुत एतत् , प्रथमसमये ग्रहणात् द्वितीयादिषु निसर्गग्रहणादन्त्य एव निसर्गात , इतश्चैतदेवं, द्विसामयिकस्यैव जघन्यस्य ग्रहणनिसर्गस्योक्तत्वात् , स्थानोर्मुमोंर्वेत्यभिप्रायः, एवमुक्ते सति द्वितीयमत्रश्रवणभ्रमन्मतिश्चोदको भणति-चोएइ 'कथं 1 कया विवक्षया 'सान्तरः सव्यवधानः 'भणितः तेनैव मुखेन प्रतिपादितो द्वितीयसूत्रे तेन, निसर्ग इति गम्यत इति गाथार्थः॥३६८॥ 84555555 205