________________ CRO विशेषाव० कोट्याचार्य वृत्तौ | तादि // 131 // __'पुढ'मित्यादि, पुढे-आलिंगियं रेणुं व तणुंमि शृणोति गृह्णात्युपलभत इति पर्यायाः, कं ?-शब्द्यतेऽनेनेति शब्दः तं, शब्दप्रा. योग्यां,द्रव्यसंहतिमित्यर्थः,तस्य बहुमुक्ष्मभावुकत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणतः पटुतरत्वात् ,तथा रूप्यत इति रूपं तद्रूपं पुनः18 13 शब्दादीपश्यति-गृह्णाति उपलभते 'अपुढे अस्पृष्टमेवानालिङ्गितमेव, किं कारणं , चक्षुषः अमाप्यकारित्वात् , पुनःशब्दस्य विशेषणार्थत्वात् | अस्पृष्टमपि योग्यदेशस्थं नायोग्यदेशस्थमपि सौधर्मादीति, गन्ध्यत इति गन्धस्तं, रस्यत इति रसस्तं, स्पृश्यते इति स्पर्शस्तं च, चशब्दौ पूरणार्थों, बद्धं-आत्मीकृतमात्मप्रदेशस्तोयवदाश्लिष्टमित्यर्थः, 'पुढे तु' पूर्ववत् , प्राकृतशैल्या चेत्थमाह 'बद्धपुढे तु',अर्थतस्तु 'पुट्ठबद्ध मिति दृश्यं, अनुगुणत्वात् , अत्राह-यद् बद्धं गन्धद्रव्यादि तत् स्पृष्टं भवत्येवेति स्पृष्टग्रहणं न कर्त्तव्यं, तन्न, सकलश्रोतृसाधारणत्वाच्छास्त्रारम्भस्य, अपश्चितज्ञानुग्रहार्थमर्थापत्तिगम्यार्थाभिधानेऽप्यदोषात् , अथवा स्पृष्टं च तद् बद्धं चेति विशेषणसमासाङ्गीकरणाददोषः, तत्र स्पृष्टं गन्धादि विशेष्यं वर्चते, बद्धमिति तु विशेषणम् , आह-एवमपि स्पृष्टग्रहणमतिरिच्यते, बद्धस्य स्पृष्टत्वाव्यभिचारादुभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा नीलोत्पलमिति,न चेहोभयपदव्यभिचारः एकपदव्यभिचाराद् उच्यते, एकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्ट एव, यथाऽप् द्रव्यं पृथिवी द्रव्यमिति, तत्र अपद्रव्यं नियमात् द्रव्यं पुनर वाऽनब् वेति, तद्वदत्रापि, भावार्थस्त्वयं-स्पृष्टानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वात् अभावुकत्वादल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् , गृह्णातिविनिश्चिनोति घ्राणेन्द्रियादिगण इत्येवं 'व्यागृणीयात् ' प्रतिपादयेदिति नियुक्तिगाथासमुदायार्थः // 336 // अवयवार्थस्तु भाष्यकार आह-'पुढे'मित्यादि 'बहु'इत्यादि 'फरिसे'त्यादि, गाथात्रयं भावितार्थम् // 337-38-39 // 'रूवं पुण पासती अपुटुंतु' इत्येत| द्विशेषतो व्याचिख्यासुराह NROEACCANESAMACHAR