________________ U विशेषाव कोट्याचा वृत्ती // 112 // SISAISISSEISTASSA येति गाथार्थः // 27 // अथैतदालोचनं व्यञ्जनावग्रहान्न भिद्यते, तस्य चार्थपरिशून्यत्वे न शोभनं चोदकः पश्चाद् गणयतीति | अवग्रहस्यासाधयन् सरिराह-त' मित्यादि / तद् भवता उत्प्रेक्षितं व्यञ्जनावग्रहात पुव्वं पच्छा स एव दा होज्जा ?, अन्यावस्थानाभावात् त्रयी लोचनापूर्वकल्पना, किंचातः ?, आह-'पुव्वं नत्थि'त्ति, व्यञ्जनावग्रहात् पूर्व तावत्तन्नास्ति, कुत इत्याह-अर्थव्यञ्जनसम्बन्धाभावतः, नहि प्रसु 5 ताखंडनं तादिदेवदत्ताः (किश्चिदप्यालोचयन्ति) नहि तदा खल्वालोचनीयमस्तीत्यभिप्रायः, शब्दस्याश्रुतत्वाद्, अतः पूर्वपक्षो ह्यसङ्गतः // 274 // पश्चात्पक्षस्तर्हि सङ्गतो भविष्यतीत्यत आह-'अत्थोग्गहोवी'त्यादि / अर्थावग्रहोऽप्येकसामयिको मतिविशेषः, यद्-यस्माद् // 112 // व्यञ्जनावग्रहस्यैव मत्याद्यकारणस्य 'चरमसमये पर्यन्तसमये प्रादुर्भावमासादयति 'तो' ततः 'पश्चादपि पृष्ठतोऽपि व्यञ्जनावग्रहस्य 'न युक्तं न घटते तदालोचनं, ततः किमिति चेदुच्यते यद्येवं ततः 'पारिशेष पारिशेष्यसिद्धथा तदालोचनं भवेद् व्यञ्जनावग्रहः स्यान्न कश्चिद्दोषो, नाममात्रविप्रतिपत्तेरिति गाथार्थः // 275 / / आह-क्रियतां तर्हि चोदकवर्गेण वर्धापनकमाचार्याभिप्रायाविसंवादला| भात् , मरिराह-मा, किं कारणं ?, विरोधात् , कथं विरोध इति, अत्रोच्यते, तदालोचनमर्थस्य वा भवेत् व्यञ्जनानां वेति विकल्पद्वयं, किं चातः, तत्र, प्रथमविकल्पमनुवदन्नाह-तं चेत्यादि / समालोचनं-तदालोचनम्, 'अत्थदरिसणं' यदि सामान्यार्थोपलम्भ इति यद्यभ्युपगम्यते 'न वंजणं तो तंति 'तो' ततस्तद् व्यञ्जनं न भवति, अर्थदर्शनस्य सामान्यग्राहित्वेनाशून्यत्वाद्, आलो. चनारूपव्यञ्जनस्य तु शून्यत्वात् , 'पुव्वं च वंजणोग्गहकालो सो अत्थपरिसुण्णो'त्ति साधितत्वात् , न ह्यग्रहणं ग्रहणं भवति येन त्वया वर्धापनकमारभ्यते इत्यभिप्रायः / द्वितीयं विकल्पमुररीकृत्याह-'अह वंजणस्स'त्ति अथ मन्यसे 'व्यञ्जनस्य' विवक्षितस्य द्रव्यक-15 1 यद्यप्यत्र 1137 वर्षीयकूर्चपुरीयजिनवल्लभपुस्तके पाठोऽस्ति कियान् तथापि घर्षित इति न शक्यते वाचयितुं.