________________ विशेषाव० कोव्याचा सामान्यवि| शेषज्ञाने वादान्तरं // 11 // // 11 // कल 'या' इत्यथवा एवं सति प्रथमसमयापायवादिनः ध्रुवं-निश्चितं अवग्रहादेमेंदचतुष्टयस्य उत्क्रमव्यतिक्रमौ प्राप्तौ, तत्र उत्क्रमः-धारणापायेहाऽवग्रहपरिपाटी, उत्तरकालभाविन आदिकालभावित्वमिति भावना, घा-अ-ई-अ, प्रयोगो-धारणैव प्रागस्तु उत्तरकालमावित्वाद् व्यञ्जनावग्रहचरमसमयशब्दज्ञानवत्, सिद्धश्च परस्यायं दृष्टान्तः–“समयंमि चेव परिचियविसयस्स विसेसविनाणं"ति स्वीकृतत्वाद, एवं पुनरपायः पुनरीहेत्येवमादि स्वधियाऽभ्यूद्यमिति, व्यतिक्रमस्तु-इतरेतरोल्लकनलक्षणः, तथाहि-अवग्रहमतिक्रम्येहा, तामतिक्रम्यापायस्तमतिक्रम्य धारति अ, ई, अ, धा, प्राग्ज्ञानमन्तरेणोत्तरकालज्ञानमस्तु माविताभिधानेन व्यवहाराद् अव्यक्तबानमन्तरेण व्यक्तज्ञानवत्, न चासिद्धो हेतुः 'उग्गहो ईह अवाओ यधारणे त्येवमादिक्रमस्य गणधरभाषितत्वेनान्यजन्मन्यप्येवमेवावबुध्यमानत्वाद, सिद्धश्च दृष्टान्तः, एतदुक्तं भवति–पश्चानुपूर्वीभवनं उत्क्रमोऽनानुपूर्वीभवनं तु व्यतिक्रम इति गाथार्थः / तथा यदि प्रथमसमयावगृह्यमाणं विशेषयतः 'सामन्नं च विसेसोति / सामान्यं नाम विशेषः, प्रथमसमये सामान्यस्यैव गृह्यमाणत्वात् , अर्यापच्या च विशेषः सामान्यमत आह-'सोवासामण्णं' ति विपर्ययः, यथा कम्बली पावृणोति यस्य वणिगित्यौरभ्रिको नाम वणिक् तथा वणिगौरम्रिका, प्रथमसमय एव ग्रहणात्, उभयं वा-विशेषसामान्यलक्षणं, किमत आह-'उभयं त्युभयं च, एतदुक्तंभवति-विशेषः सामान्यं च, सामान्यमपि तद्विशेषश्चेति, आह-सर्वमेतत् सुन्दरं किमनेनैतावता वाक्सन्दर्भेणेत्यत आह-न च युक्तं | सर्वमिदं गोन्दलस्यामलत्वात् उक्तवत् , किं सर्वथा नेत्याह-सामान्यालम्बनं मुक्त्वा व्यञ्जनावग्रहचरमसमय इति प्रकृतं, ततश्चार्यावग्रहः समयमस्य च प्राक् व्यञ्जनावग्रह इति स्थितमिति गाथात्रयार्थः // 270-271-272 // मिथ्यात्वव्यावृत्यर्थमया आरम्मा इत्यत आह