________________ S अव्यक्तशब्दग्रहणचर्चा A // 106 // विशेषाव स्वयमप्यक्षिणी निमील्य किमहं युक्तवाद्ययुक्तवादी वेति, न हि जानानैर्वस्त्वपलापः कर्तुं शक्यत इति चेत्, ननु यदि भवतोऽसदकोव्याचार्य ग्राहस्ततोऽयं सांव्यवहारिको भविष्यतीति मा त्वरिष्ठा इति गाथार्थः // 261 // अत्रैव सौत्रं परिहारमाह-'अथवेत्यादि / अथवा प ठन्तमूर्ख! श्रुत एवैतत् भणितं यदुत मागावग्रहः, कतमेन सूत्रावयवेनेति तदुच्यते-आधेन, कश्वासावित्यत आह-'जह कोई सुणेज्ज स॥१०६॥ 8 मव्वत्त' तच्चेदं सूत्र-"से जहा नामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा" पुनश्च 'तणं सद्देत्ति उग्गहिए,न उण मेयमाइ जाव तओ णं | |घरेइ संखेज वा असंखेज वा कालं"ति, सत्राव्यक्तमिति किमुक्तं भवति इत्यत आह-अव्यक्तं-अनिद्देश्य सामान्यं-कल्पनादिर| हित हुमिति समयेऽयं श्रोताऽवगृहातीत्येतचोक्तमेवेति, एतदपि कुतः इति चेदवग्रहस्यानाकारोपयोगेऽन्तर्भूतत्वाद् , अनाकारोपयोगस्य | चाव्यक्तविषयत्वात् सामान्यमात्रविषयत्वादिति भावनेति गाथार्थः // 262 // सूरिरेव पराभिप्रायमाशिशङ्कयिषुराह-'अहवे'त्यादि / अथ चेत्स्यान्मतिर्भवतःप्रागेव सोऽव्यक्तःशब्दो 'गृहीतः' उपात्तो 'व्यञ्जनावग्रहे 'व्यञ्जनावग्रहवेलायां 'तेन' श्रोत्रेति, कुत एतत् ज्ञायते ? इत्यत आह-'जं वंजणोग्गहंमिवि भणियं विष्णाणमव्वत्तं त्वयैवेति स्मर्यतां, 'सुत्तमत्तादिसुहुमबोहोव'त्ति वचनात् , तथा स्याद् यथा| श्रुतमेव सत्रमस्तु आद्यालापकस्याव्यक्तग्रहणविषयत्वादिति गाथार्थः॥ 263 // उच्यते-'अत्थी' त्यादि / अयमत्र पौर्वापर्यानु| विद्धो भावार्थो भावनीयः, तथाहि-अस्ति तदव्यक्तं श्रोतुर्व्यञ्जनावग्रहे शानं, न तस्यास्माभिरिदानीमपि भवत्कचगृहीतैरपलापः क्रि| यते, किन्तु नन्वात्मनीनमप्यसौ श्रोता तत् गृह्णातीत्येतदपि स्मर्यतां भणितं प्रागस्माभिः, ततश्च 'सुत्तादयो सयं चिय विनाणं नावबुझंति'चि वचनात् , 'न सो तेण वंजणोग्गहे गहिओ'त्ति चोद्यनिवृत्तिः। तत्रैतत्स्याद्-असौ व्यञ्जनावग्रहेऽव्यक्ततया गृहीतोऽपि तचरमसमये व्यक्ततया ग्रहीष्यत इत्यत आह-'नच' नैव अगृहीतेऽव्यक्ततया सामान्ये न 'युज्यते' घटा याति, केत्याह-शब्द RKAROGARAGAR ॐॐॐORS