________________ विशेषाव कोव्याचार्य अव्यक्तशब्दग्रहण वृत्ती चर्चा // 107 // ASOROS ASSEN // 107 // इत्येवं विशेषणं-रूपादिव्यवच्छेदनं या लभते बुद्धिः सा, णमिति लोपादा शब्द इत्येवं विशेषेण रूपादिव्यवच्छेदेन शब्द इति बुद्धिः विशेषबुदिरिति, तस्यास्तृतीयस्थानमावित्वादिति गाथार्थः // 264 // यदि पुनर्व्यञ्जनादानकालेऽप्यव्यक्तग्रहः स्यात् क इव तर्हि दोषः स्यादत आह–'अत्थोत्ती'त्यादि / अर्थ इति विषयग्रहणं-अर्थ इत्यव्यक्तशब्दाख्यार्थसंवेदनमुच्यते, ततश्च 'जति तंमिवित्ति यदि तत्रापि-व्यञ्जनादानकाले 'सो'त्ति अव्यक्तशब्दग्रहः ततो न व्यञ्जनं नाम, निवृत्तेदानीं व्यञ्जनाग्रहवार्तेत्यभिप्रायः, यतोऽर्थावग्रह एवासौ वर्तते, अव्यक्तग्रहणात् , सूत्रप्रामाण्यात् तथाऽप्यसावस्त्येवेति चेदत आह-'अविशेषः' अनानात्वं तयोरितरेतरा|वष्टब्धस्वभावत्वादितरेतरस्वात्मवदिति, न चेदेवं सङ्करस्तर्हि, अन्योऽन्यासक्तत्वान्मेचकमणिप्रभावदिति गाथार्थः / यतश्चैवमप्यमी | दोषा अतो व्यक्तपक्षोऽप्यसाधुः, तथाहि-समुच्चयग्रहणेहापायाख्यकरणत्रयादेव व्यक्तशब्दबुद्धिर्भवति, नान्यथेति // 265 // अत:'जेणे त्यादि / 'येनार्थावग्रहकाले' येनाव्यक्तध्वनिश्रवणवेलायां ग्रहणेहापायसम्भवो नास्ति साकल्येनेति मन्यते उत्सिद्धान्तत्वात् , 'तो' तेन कारणेन 'नास्ति' न विद्यते 'शब्दबुद्धिः शब्दापायः, व्यञ्जनावग्रहचरमसमय इति प्रक्रमः, अथास्त्यत्र सा व्यञ्जनादान| काल एवाव्यक्तस्य गृहीतत्वादिति ततो नासाववग्रहो नाम, किं तर्हि ?-अपाय एवासौ स्यात् , न चायमपाय:, अवग्रहाद्यन्तरेणास्या| भावात् , किं न ते संवेद्यन्ते ? इति चेत् कालस्य सूक्ष्मत्वादुत्पलपत्रशतव्यतिभेदवदिति गाथार्थः॥२६६॥अपिच-सामण्णे' त्यादि। | 'से'त्ति से-अस्य हुमिति कर्तुः श्रोतुः अर्थावग्रहैकसमये-हुमिति करणसमये उपयोगबाहुल्यमापन्नं-प्राप्तं भवतश्चोदकस्य, कुत इत्याह| 'सामन्ने ति सामान्य-शब्दसामान्यमुपातविषयावग्रहणं तच्चान्ये च तदन्ये तेषां विशेषास्तदन्यविशेषास्तद्विषया ईहा तदन्यविशे हा, वर्जनं च हेयाना, परिग्रहणं चोपादेयानामिति वर्जनपरिग्रहणं, तदन्यविशेषेहा च वजनपरिग्रहणं च तदन्यविशेषेहावर्जनपरिग्रहणं