________________
वैराग्यरसमञ्जरी॥
प्रथमगुच्छके मन:
प्रबोधः॥
तस्माद्धितं विधातव्य-मात्मनो नाहितं कदा । येन चात्यंतिक सौख्यं मोक्ष एकान्तिकं भवेत्॥८॥ कुलकम् प्रथमं श्रेयसोऽर्थ भो ! रुणद्धि योगमात्मनः। अनिरोधादयं हा हा ! साधयत्यशुभं न किम् ? ॥९॥ मनोमत्तः करी लोके कुमतिकरिणीयुतः । कषायकलभैर्युक्तः किं किं नोन्मूलयेद्धवि ? अनिरुद्धा वचःश्रेणी महानर्थविधायिनी । निरपेक्षा भवत्येव तत्तस्याः संयम कुरु
॥११॥ अश्रेयःपथिकः कायः ततायोगोलको मतः । तस्माच्छ्रेयःप्रवृत्तिभाग कर्तव्यस्तस्य संयमः ॥१२॥ शास्त्राभ्याससहायेन जीवेन क्रियते सुखम् । तन्निरोधस्ततो जीव ! शास्त्राभ्यासे रतो भव ॥१३॥ यतः तत्रास्ति सद्युक्तिः मनोबोधप्रदायिका । प्रथमं दर्यते सात्र पश्चादन्ये गुणा अपि ॥१४॥ जन्ममृत्युजराजात-वेदसा दग्यविष्टपे । ज्ञानोदधिमिहाश्रित्य मुदं याहि वरं मनः ! ॥१५॥ किं चित्त ! चिन्तितैव्यै-रस्थिरैरसुखावहै: । तेभ्यस्तृष्णाशमस्ते न तत्संतोषरसं पिब चित्त ! भवस्वरूपं त्वं चिन्तयस्व विरूपकम् । इन्द्रजालसमं सर्वं यदि सौख्यं समीहसे ॥१७॥ मित्रद्विषां यदा तुल्या प्रवृत्तिस्तव मानस!। अनर्गलं सुखं तर्हि लप्स्यसे त्वं न संशयः ॥१८॥ देवनारकयोस्तुल्यं दुःखे सुखे मणौ तृणे । लोष्ठकाश्चनयोश्चित्त ! तदा ते परमं सुखम् ॥१९॥ दुर्वारमरणं चित्त ! प्रत्यासन्नं दिने दिने । चिन्तनीयं त्वया शेष-विकल्पजालकैः किमु ? जन्ममृत्युजरारोग-शोकादिनिवहो मनः!। यत्र प्रवर्तते तत्र वैराग्यं वहसे न किम् ? ॥२१॥