SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ वैराग्यरसमञ्जरी॥ चतुर्थगुच्छके तत्वत्रयी वर्णनम् ॥ दृढप्रहारिकं पापं गुरुमृते नयेद्धि कः ? । मुक्तिं त्यागं समात्र गुरवो हि कृपालवः ॥५५॥ अमूल्यं मानवं रत्नं मणिकारं गुरुं विना । स्त्रीगन्त्रीवाटिकामग्ना न जानन्ति कदाचन ॥५६॥ गोविन्द इव वन्दन्तेऽनलसा ये जना हि ते । नारकादिक्षयं कृत्वा भवेयुः स्वगमोक्षगाः ॥५७ ॥ त्यागिनां वन्दने त्यागानुमोदो भवति ध्रुवम् । त्यागानुमोदनाद् भावी त्यागगुणो निजात्मनि ॥५८॥ आलस्यादिनिबद्धो यः सुगुरुं नैव वन्दते । शृङ्गपुच्छविहीनः स मन्तव्यः पशुरेव च ॥५९ ॥ मत्वेति सुगुरुं नित्यं सेवस्व शुभभावतः । येन मिथ्यामतं त्वां न बाधते कापि मानस? ॥६०॥ कुगुरुः परिहर्तव्यो विज्ञानालङ्कृतोऽपि हि । विषपात्रगता किं न सुधा निहन्ति जीवितम् ॥६१॥ सुधर्मः सेवनीयोऽस्ति रोगात्तैरिव भेषजम् । कर्मकफादिकं हन्ता स एव परमौषधम् ॥२॥ सुधर्मात् सुकुले जन्म सम्पदारोग्यमेव च । विद्यासिद्धिः प्रसिद्धिश्च भवतीति स सेव्यताम् ॥६३ ॥ धर्माद् धनं धनात् कामः कामात् सौख्यं प्रजायते। कार्यार्थी कारणं त्वं चे-दन्षयेस्तदा सुखम् ॥ ६४ ॥ धर्म एव ब्रुडजन्तून् कूपानिर्गमको मतः । रज्जुरिवान भो तस्माद् धर्मसेवापरो भव ॥६५॥ दारिद्रयभेदको धर्मः सर्ववाञ्छितपूरकः । धर्मः कल्पतरुः साक्षाद् धर्म एव सतां गतिः ॥६६॥ शरणं धर्म एवात्र कर्मकृते सदा भ्रमे । दुःखप्रचूरपूरेण सहिते भवचक्रके ॥६७॥ कश्चिदुःखी सुखी कश्चिद्रोगी कश्चिन्निरागकः। निर्बुद्धिर्बुद्धिमान् कश्चि-दधर्मधर्मतो भवेत् ॥६८॥ ॥८॥
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy