SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ दीपालिका कल्प: ॥७॥ पुरे तदा ॥ २०॥नदययाऽऽ-ज्ञया। कीया ॥ २० ॥ युग्मम् ।। फल-पुष्प-रसादीनां रूप-सौभाग्य-संपदाम् ॥ २०१॥ सत्व-संहनन-स्थाम्नां यशः-कीर्ति-गुण-श्रियाम् । हानिः क्रमेण भावानां भाविनीपंचमारके ॥२०२॥ युग्मम् ॥ दान-शील-तपो-भाव-रूपधर्मस्य संक्षयः । कुटतुला कूटमानं शाख्यं धर्मेऽपि भावी च॥२०३ ॥ देवत्वं नैव देवेषु सतीत्वं न सतीष्वपि । निःसङ्गेषु न वैराग्यं निःस्पृहं न तपोऽपि हि ॥ २०४॥ सत्यशौचतपः क्षान्त्यादीनां हानिर्दिने दिने । भूमिः स्वल्पफला मेघा कालेऽप्यल्पजलप्रदाः ॥ २०५॥ स्वाम्याख्याति सुसौराष्ट्र-लाट-गुर्जर-1 सीमनि । क्रमेण नगरं भावि-नाम्नाऽणहिल्लपाटकम् ॥ २०६॥ असिनिर्वाणतो वर्ष-शतानि वत्स! पोडश १६६९ । नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥ २०७॥ कुमारपाल-भूपालीलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥२०८॥ युग्मम् ॥ पराक्रमेण-धर्मेण-दानेन-दययाऽऽ-ज्ञया । कीर्त्या-गुणानुरागेण-नयेन-विनयेन च ॥२०९॥ विज्ञानेन| विवेकेन-धैर्येण-राज्यलीलया । सोऽद्वितीयो नृपो भावी महासत्वोचितैर्गुणैः ॥ २१० ॥ युग्मम् ॥ कौबेरीमातुरुष्कं स प्राचीमात्रिदशापगाम् । याम्यामाविन्ध्यमावार्द्धि-पश्चिमां साधयिष्यति ॥ २११॥ एकादशशता ११०० नीमा रथास्तस्यायुत १०००० प्रमाः । एकादशहया लक्षाः ११००००० पत्यष्टादशलक्षकाः १८००००० ॥२१२॥ सोऽन्यदा वज्रशाखायां मुनिचन्द्रकुलोदवम् । श्रीहेमचन्द्रमाचार्य वन्दिता मेदिनीपतिः ॥ २१३ ॥ निशम्य रम्यश्रीधर्मो-पदेशं तन्मुखानृपः । श्राद्धव्रतानि सम्यक्त्वसहितानि प्रपत्स्यते ॥ २१४ ॥ अपूजितेषु देवेषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नोपासकवतः ॥ २१५ ॥ प्रतिद्गं प्रतिग्रामं प्रायेण स प्रभावकः । निर्मास्यति महीमेतां जिनप्रासादमण्डिताम् ॥ २१६ ॥ सैकदा श्रीहेमसूरि-मुखातीर्थकथाक्षणे । -तु। २-उत्तरमां शीलारस उत्पत्तिस्थान सुधी। ३-पूर्वमा गगा नदी सुंधी।
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy