SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ दीपालिका॥ ६ ॥ निजं बहु । जगतीं प्रीणयामासु- र्जनतैकान्तवत्सलाः ॥ १६७ ॥ राज्ञा पुनर्गतेनाग्रे सश्रीकचम्पकस्तरुः । शमीशाखी चैकदेशे वनमध्ये निरीक्षितौ ।। १६८ ।। जनैः शमीतरोस्तत्र गन्धमाल्यविलेपनम् । मण्डनं गीतनृत्यादि - क्रियमाणं व्यलोक्यत ॥ १६९ ॥ पत्रपुष्पफलाढ्यस्य छत्राकारस्य शाखिनः । अन्यस्यैव न पूजादि - द्विजास्तत्फलमूचिरे ॥ १७० ॥ न श्रीः पूजा गुणवतां सजनानां महात्मनां । पापिष्ठानां खलानां च पूजालक्ष्म्यौ भविष्यतः ॥ १७१ ॥ पुनः शिलैका वालाग्र - लम्बिता नभसि स्थिता । निरीक्षिता | क्षितीशेनाss - चख्युस्तस्य फलं द्विजाः ॥ १७२ ॥ पापं कलौ शिलाकल्पं स्वल्पधर्मेण भूपते ! । वालाऽवलम्बतुल्येन जनोऽयं निस्तरिष्यति ॥ १७३ ॥ वालाग्रत्रुटिते धर्मे ब्रूडिष्यन्ति जनाः समे । फलार्थं तरुवधस्य तदृष्टस्य फलं विदम् ॥ ९७४ ॥ पितुर्व्वक्षेण तुल्यस्य फलेन सदृशः सुतः । धनाद्यर्थं वधप्राय-मुद्वेगं जनयिष्यति ॥ १७५ ॥ वर्यान्नपचनार्हायां क्षितीशेन समीक्षितः । लोहमय्यां कटह्यां च पाको मांसादि वस्तुनः ॥ १७६ ॥ प्राहुस्तस्य फलं विप्राः स्वज्ञातिपरिहारतः । परवर्गे नरेशार्थ - दानं पीतिश्च भाविनि ॥ १७७॥ सर्पसर्पद्विपोः पूजा-पूजे वीक्ष्य फलं त्वदः । निर्दयेष्वप्यधर्मेषु सर्पतुल्येषु सत्कृतिः ॥ १७८ ॥ सुपर्णामेषु पूज्येषु सत्क्रियाधर्मशालिषु । गुणज्ञेष्वप्यसत्कारोऽ- नादरश्च भविष्यति ॥ १७९ ॥ गजवाह्यं खरवाह्यं शकटं यत्समीक्षितम् । फलं तस्येदमुच्चेषु कुलेषु गजशालिषु ॥ १८० ॥ मर्यादास्यन्दनोद्वाह-योग्येषु कलहोऽनिशम् । नीतिलोपस्तथाऽन्योन्यं मत्सरश्च भविष्यति ॥ १८१ ॥ कुलेष्वन्येषु नीचेषु खरतुल्येषु भूपते ! । मर्यादानीतिधारित्वं स्नेहोऽन्योऽन्यं भविष्यति ।। १८२ ॥ स्नेहभावो वालुकासु त्वया भूप ! विलोकितः । कृषिसेवादिकारम्भा - तत्फलं भावि नो धनम् ॥ १८३ ॥ अग्रे गतेन भूपेन काकं हंसैर्निषेवितम् । दृष्ट्वा पृष्टैर्द्विजैः १ - चम्पकस्य । कल्पः 11 & 11
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy