SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ FUARLSSALAMUALAISYIASATISFYLTARUSSASSURSEYAYASASA! पद्मोत्पत्तिरनास्पदे । ऊपरे बीजवापश्च हेमकुंभा मलाविलाः॥५१॥ तदेषां फलमाख्याहि ज्ञानज्ञातजगत्रयः। वीरो राज्ञेति विज्ञप्तो भावि तत्फलमादिशत् ॥ ५२ ॥ दुःखदौर्गत्यदीनत्व-पीडारोगभयाश्रयः। जीर्णशालासमो भावी समयेन गृहाश्रमः॥५३॥ गृही गजो रतस्तत्र दुःखेऽपि नादरिष्यति । व्रतशालां सुखासेव्यामादृतामपि मोक्ष्यति ॥ ५४॥र कपिवचपलात्मान-स्तुच्छसत्त्वा अनाश्रवाः । यतयो भाविनो ज्ञान-क्रियासु शिथिलादराः ॥५५॥ धर्मकृत्येषु ये शिक्षा प्रदास्यन्ति दृढव्रताः। ते तानुपहसिष्यन्ति ग्राम्या ग्रामस्थपौरवत् ॥ ५६ ॥ 3 सम्यगज्ञानक्रियाभक्ताः शासनस्य प्रभावकाः । सप्तक्षेत्रेषु दातारः सच्चारित्रयतिप्रियाः॥ ५७ ॥ क्षीरवृक्षसमाः श्राद्धाः लिङ्गिभिर्वश्चनापरैः। बब्बूलतुल्यै रोत्स्यन्ते सर्वतोऽतुच्छमत्सरैः ॥५८ ॥ युग्मम् ॥ लिङ्गिनो न सहिष्यन्ते । महत्त्वमनगारिणाम् । उपास्ति वारयिष्यन्ति रोत्स्यन्ति क्षेत्रपद्धतिम् ॥ ५९॥ अतुच्छस्वच्छतोयायां दीपिकायामिव द्विकाः । गच्छे । ज्ञानक्रियायुक्ते न स्थास्यन्ति तपोधनाः ॥ ६॥ ततस्ते परगच्छेषु श्लथाचारेषु सस्पृहाः । यास्यन्ति पण्डितंमन्या मूढा धर्मार्थि-15 नोऽपि हि ॥ ६१॥ न युक्तं भवतामेवं विधानमिति नोदिताः । साधुभिघर्षयिष्यन्ति रुष्टा दुष्टाशया जडाः ॥ ६२ ॥ जातिस्मृतितपोलब्धि-ज्ञानातिशयवर्जितम् । निष्प्रभावं मतं सार्व भावि सिंहशवोपमम् ॥ ६३ ॥ प्राक् प्रभावानुभावेन श्वापदाभाः कुतीर्थिकाः। एतत्पर भविष्यन्ति न जातु कुतबुद्धयः॥ ६४॥ किन्तु मध्ये समुत्पन्ना नानामतप्ररूपणैः । मेत्स्यन्ति भिक्षवः श्वव-सिंहस्वमफलं ह्यदः ॥ ६५ । पद्माकरेषु पद्मानां युक्तोत्पत्तिर्यथा तथा । धार्मिकाणामपि प्रौढ-कुलोत्पत्तिः प्रशस्यते ॥६६॥ परं कालानुभावेन |भाविनस्तेऽयमे कुले । अग्राह्यवचसो हीन-गोत्रत्वेन विगर्हिताः ॥ ६७॥ यथा कोऽप्यूपरक्षेत्रे मुग्धबुद्धिः कृषीवलः । धान्यवीजानि 1-अकथनकारिणः । २-प्रेरिताः । ३-द्वेषयिष्यन्ति । ४-सर्वज्ञम् । ५-पण्डिताः। ६-श्चैतत् ।
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy