________________
श्रीभगलघुवृत्तौ
OCCOLIC DEDIC
सूत्रे पूर्वार्द्धमेव लिखितं, शेषाणां विवक्षितार्थानां यावच्छब्देन सूचितत्वात् 'पुढवि 'त्ति पृथिव्यो वाच्याः - ताश्चैवम्- 'कइ णं भंते ! पुढवीओ पं० गो! सत्त, तं- रयणप्पभे'त्यादि, 'ओगाहित्ता निरय'त्ति पृथ्वीमवगाह्य कियद्दूरे नरका इति वाच्यं तत्रास्यां रत्नप्रभायां अशीतिसहस्रोत्तरयोजनलक्षबाहल्यायां उपर्येकं योजनसहस्रमवगाह्याधोऽप्येकं वर्जयित्वा त्रिंशन्नरकलक्षाणि स्युः, एवं शर्करप्रभादिषु यथायोगं वाच्यं, 'संठाणमेव'त्ति संस्थानं नरकेषु वाच्यं तत्र ये आवलिकाप्रविष्टाः ते वृत्ताख्यश्राथ, इतरे तु नानासंस्थानाः, 'बाहलं 'ति नरकबाहल्यं वाच्यं तच्च त्रीणि योजनसहस्राणि, कथं ?, अध एकं मध्ये शुषिरमेकमुपरि चैकं सङ्कोच इति, 'विक्खंभपरिक्खेवो'त्ति एतौ वाच्यौ, तत्र सङ्ख्यातविस्तृतानां सङ्ख्यातयोजन आयामो विष्क्रम्भः परिक्षेपश्च, इतरेषां त्वन्यथेति, तथा वर्णादयो वाच्याः, ते चात्यन्तमनिष्टा इत्यादि बहु वक्तव्यं, यावदयमुद्देशकान्तो यदुत किं 'सव्वपाण'त्ति अस्यां रत्नप्रभायां ३० नरकलक्षेषु किं सर्वे प्राणादय उत्पन्न पूर्वाः १, अत्रोत्तरं - 'असई 'ति असकृद् - अनेकशः, 'अदुव'त्ति अथवा 'अनंतखुत्तो' अनन्तकृत्वः अनन्तवारानिति । द्वितीयशते तृतीय उद्देशकः ॥
अथ चतुर्थ आरभ्यते, यथा 'पढमिल्लो इंदियउद्देसउत्ति (सू. ९८ ) प्रज्ञापनायामिन्द्रियपदाख्यपश्ञ्चदशपदस्य प्रथम उद्देशकोऽत्र नेतव्यः, तत्र च द्वारगाथा - " संठाणं बाल्लं पोहत्तं कइपएस ओगाढे । अप्पा बहु पुट्टपविवविसये अणगार आहारे ॥ १ ॥ इह सूत्रेऽयमेवः लिखितः शेषास्तु तदर्था यावच्छब्देन सूचिताः, तत्र संस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुः मसूरकचन्द्राकारं, मसूरकमासनविशेषः, अथवा चन्द्रः - शशी, अथवा मसूरकचन्द्रो - धान्यविशेषदलं, घ्राणं अतिमुक्तक चन्द्र पुष्पविशेषाकारं, रसनेन्द्रियं क्षुरप्रसंस्थितं, स्पर्शनेन्द्रियं नानाकारं, बाहल्यतः सर्वाण्यङ्गुला सङ्ख्येय भागबाहल्यानि,
+
CDCCDOL JOC
२ शतके ४ उद्देशः
118411