SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीभग० | लघुवृत्तौ समुद्घातादयस्तप्त समुद्धाताः, अत एवाह- 'छाउमत्थियसमुग्धायवजं ति छद्मस्थसाधोः केवलज्ञानाभावेन केवलिसमुद्घाताभाव:, तत्रेदं सूत्रं - 'कइ णं भंते ! छाउमत्थियसमुग्धाया पन्नत्ता ? गोयमा ' इत्यादिसूत्रवर्जितं 'समुग्धायपर्यं' ति प्रज्ञापनायां षट्त्रिंशत्तमपदं समुद्घातार्थं नेतव्यं, तच्चेदम्- 'कह णं भंते ! समुग्धाया पं० १, गो० ! सत्त, तंजहा - वेयणसमुग्धाए कसायसमुग्याए' इत्यादि, इह सङ्ग्रहगाथा - " वेयण १ कसाय २ मरणे ३ वेउब्विय ४ तेयए य ५ आहारे ६ । केवलिए चेव भवे जीवमणुस्साण सत्तेव || १ ||" जीवपदे मनुष्यपदे सप्त वाच्याः, नरकादिषु तु यथायोगं, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेद| नीयकर्मपुद्गलानां शातं कुर्यात्, कषायसमुद्घातेन कषायपुद्गलानां, मारणान्तिकसमुद्घातेन आयुः कर्मपुद्गलानां, वैकुर्वि - कसमुद्धतो जीवप्रदेशान् शरीराद्वहिर्निष्कास्य शरीरविष्कम्भबाहल्य मात्रमायामतश्च सङ्ख्येययोजनानि दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् शातयति, यथासूक्ष्मांश्चाद ते, यथोक्तम्- "वेउच्चियसमुग्धाएणं समोहण्णइ २ संखेआई जोयणाई दंड निसरइ २ अहा० पुग्गले परिसाडेइ २ अहा मुहुमे पोग्गले परिआयई' त्ति, एवं तैजसाहारक समुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयति, एतेषु सर्वेषु समुदघातेषु शरीराञ्जीवप्रदेशनिर्गमोऽस्ति, सर्वे एतेऽन्तर्मुहूर्त्तमानाः, नवरं केवलिकोऽष्टसामयिकः, एते चैकेन्द्रिय विकलेन्द्रियाणामादितस्त्रयो वायुनारकाणां चत्वारः देवानां पश्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति । द्वितीयशते द्वितीय उद्देशकः ॥ अथ तृतीय आरभ्यते यथा 'कइ णं भंते! पुढवीओ त्ति (सू० ९७ ) इह जीवाभिगमद्वितीयोदेशको नारकवक्तव्यतारूपो ज्ञातव्यः, अन सङ्ग्रहगाथा - "पुढवी ओगाहिता, निरया संठाणसेय पाहलं । विक्खंभपरिक्खेवो, वण्णो गंधो य फासो य ॥ १ ॥ " २ शतके ३ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy