________________
श्रीभगलघुवृत्तौ
भाविशिष्यापेक्षयाऽतीतनिदेशोऽपि न दुष्ट इति, 'भिक्खुपडिमं'ति भिक्षूचितमभिग्रहविशेषं, एतत्स्वरूपं चेदं - 'गच्छा विणिक्खमित्ता पडिवजड़ मासियं महापडिमं । दत्तेग भोयणस्सा पाणस्सवि एग जा मांसं ॥ १॥" नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव कुर्यात्, यदाह "गच्छेच्चिय निम्माओ, जा पुब्वा दस भवे असंसुन्ना । णवमस्स तइयवत्थू होइ जहष्णो सुयाहिगमो ॥ २ ॥” इति कथं न विरोधः ?, उच्यते, पुरुषान्तरविषयोऽयं श्रुतनियमः, तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोषः, 'अहाकप्पं 'ति प्रतिमाकल्पानतिक्रमेण 'अहातचं 'ति यथातत्त्वं तवानतिक्रमेण 'अहासम्मं 'ति यथासाम्यं, समभावानतिक्रमेण 'सोहेइ' शोभयति पारणकदिने गुर्वादत्तशेषभोजनग्रहणात् 'तीरह' पूर्णेऽप्यवधौ स्तोककालावस्थानात 'पूरेइ' तत्कृत्यपूरणात्, कीर्त्तयति पारण कदिने इदं च इदं च तस्याः कृत्यं तच्च मया कृतमिति कीर्त्तनात्, 'अणुपा लेइ' तदनुमोदनात, एवमेतत्क्रमेण सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमसप्तरात्रंदिवा सप्ताहोरात्र माना, एवं नवमी दशमी च, एतास्तिस्रोऽपि चतुर्थभक्तेनापानकेन, 'राईदिय'त्ति रात्रिंदिवा एकादशी अहोरात्रप्रमाणा, इयं च षष्ठभक्तेन, 'एगराइ' त्ति एकरात्रिकी चेयमष्टमेन स्यात्, 'गुणरयणसंवच्छरंति गुणा एव रत्नानि यत्र स गुणरत्नः २ संवत्सरो यत्र तद् गुणरत्नसंवत्सरं तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकाः तपःकाल इति, त्रिसप्ततिर्दिनानि पारणकालः, स च एवं " पप्णरस वीस चउवीस चेव चउवीस पष्णवीसा य । चउवीस एकवीसा चवीसा सत्तवीसा य ॥ १॥ तीसा तित्तीसाविय चउवीस छवीस अट्ठवीसा य। तीसा बत्तीसाविय सोलसमासेसु तवदिवसा || २ || पन्नरस दसट्ट छव्यंच चउर पंचसु य तिनि तिन्निति । पंचसु दो दो य तहा, सोलसमासेसु पारणगा || ३ ||" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि अधिकानि वा अग्रेत
[ २ शतके ११ उद्देशः
॥४६॥