SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती १ उद्देशः २ 'वियहभोईत्ति व्यावृत्ते सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी, प्रतिदिनभोजीति भावः, सिंगारं'ति शृङ्गारमिव शृङ्गारं-अतिशयशोभावत् , 'आणदिए'त्ति ईषत्सौम्यतादिभावैः, नन्दितः सौम्यतादिभावैः, 'परमाणं'ति समृद्धितरतां प्राप्तः, 'पीयमणे'त्ति प्रीतिः प्रीणनं-आप्यायनं मनसि यस्य स प्रीतमनाः, परमसोमण'त्ति परमं सौमनस्यं सुमनस्कता सञ्जातं यस्य स परमसौमनस्यः, "विसप्पत्ति हर्षेण विस्तारं बजत् हृदयं यस्य स तथा, 'दव्वओ णं एगे लोए सअंते'त्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, आयामो-दैर्घ्य विष्कम्भो-विस्तारः, 'परिक्खेवेणं ति परिधिना 'भुविंसुत्ति अभवन् , ध्रुवोऽचलत्वात् , नियतः एकस्वरूपत्वात् , नियतरूपः कादाचित्कोऽपि स स्यादत आह-'सासए'त्ति शाश्वतः, प्रतिक्षणं सद्भावात् , अक्षयोऽविनाशात् , अव्ययः तत्प्रदेशानामव्ययत्वात् , अवस्थितः पर्यायाणामनन्ततया अवस्थितत्वान्नित्यः,'वण्णपजव'त्ति वर्णवि. शेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषाः बादरस्कन्धानां, अगुरुलघुपर्यवाः अणूनां सूक्ष्मस्कन्धानाममूर्तानां च, 'नाणपज्जवेत्ति ज्ञानविशेषाः, बुद्धिकृता वा अविभागपलिच्छेदाः अणंता, गुरुलघुपर्यवा औदारिकादिशरीराण्याश्रित्य इतरे तु कार्मणादिद्रव्याणि जीवस्वरूपं वाऽऽश्रित्य, 'दब्वओणं एगा सिद्धि'त्ति इह सिद्धिः सिद्धाधाररूपा ईषत्प्राग्भारा सिद्धिशिला 'खेत्तओ'त्ति पश्चचत्वारिंशद्योजनलक्षाणि आयामविष्कम्भाभ्यां, 'एगा जोयणकोडि ४२ लक्षाः३० सहस्राः किश्चिन्यूनगव्यूतद्वयाधिके द्वे योजनशते एतत्परिधिः । 'बालमरणे दुवालसविहे'त्ति 'वलए'त्ति बलतो-बुभुक्षा परिगतत्वेन वलव लायमानस्य संयमाद्वा भ्रश्यतो मरणं वलन्मरणं 'वसहत्ति वशेन इन्द्रियवशेन ऋतस्य–पीडितस्य मृतिः दीपरूपाक्षिप्तचक्षुषः शलभस्येव यत्तदशा-मरणं, 'अंतोसल्ल'त्ति अन्तःशल्यस्य द्रव्यतोऽनुद्धततोमरादेःभावतः सातिचारस्य यत् तदन्तःशल्यमरणं,
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy