________________
श्रीभगलघुवृत्ती
२ शतके १ उद्देशः
पदिशमानमन्ति, तेषां हि सनाड्यन्त तत्वात् , अथैकेन्द्रियाणामुच्छासादिभावादुच्छ्रासादेश्च वायुरूपत्वात् किं वायुकायानामपि उच्छ्वासादिना वायुना भवितव्यं उतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेनेत्याशङ्कायां प्रश्नयन्नाह-'वाउयाए णं'ति(सू.८६) अथोच्छ्वासस्यापि वायुत्वादन्येनोच्छासवायुना भाव्यं, तस्याप्यन्येन, एवमनवस्था, नैवं, अचेतनत्वात्तस्य, किञ्च-योऽयमुच्छासवायुः स वायुत्वेऽपि न वायुसम्भव्यौदारिकवैक्रियशरीररूपः, तदीयपुद्गलानामानप्राणसंज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतया एतच्छरीराव्यपदेश्यत्वात् , तथा च सत्युच्छासादीनामभाव इति नानवस्था, 'वाउकाए णं भंते'त्ति अयं च प्रश्नो वायुकायप्रस्तावाद्विहितः, अन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात् , यदाह-"अस्संखोसप्पिणिसप्पिणीउ एगिंदियाण य चउण्हं । ता चेव ऊ अणंता |वण्णस्सईए उ बोद्धव्वा ॥१॥" तत्र वायुकायो वायुकाये एव अनेकशतसहस्रकृत्वः 'उद्दाइत्त'ति अपहृत्य-मृत्वा तत्थेव'त्ति तत्रैव वायौ 'पचायाइ' प्रत्याजायते उत्पद्यते, 'पुढे उद्दाई' स्पृष्टः स्वकायपरकायशस्त्रेण अपद्रवति-म्रियते, 'नो अपुढे'त्ति, सोपक्रमापेक्षमिदं, 'निक्खमइ'त्ति निष्कामति स्वकलेवरात् , 'सिय ससरीरि'त्ति स्यात्-कथञ्चिच्छरीरी, ओरालिय'त्ति औदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्कामति ॥ यथा वायोस्तथा कस्यापि मुनेरपि तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह-'मडाई गं'ति (सू. ८७) मृतादिः-प्रासुकभोजी निर्ग्रन्थः-साधुः 'नो निरुद्ध 'त्ति अनिरुद्धाग्रेतनजन्मा, चरमभवाप्राप्त इति, अयं च भवद्वयप्राप्तव्यमोक्षोऽपि स्यादित्याह-'नो निरुद्धभवपवंचेत्ति प्राप्तव्यभवविस्तार इति, अयं च देवमनुष्यभवप्रपञ्चापेक्षयाऽपि स्यादत आह- 'नो पहीण'त्ति अग्रहीणचतुर्गतिगमनः, यत एवमतो 'नो पहीणसंसार'त्ति अप्रक्षीणसंसारवे