________________
श्रीभगलघुवृत्तौ
| हकाएत्ति एकस्यापि परमाणोः शीतोष्णस्त्रिग्धरूक्षस्य स्पर्शानामन्यतरदविरुद्धं स्पर्शद्वय मेकदैवास्ति ततश्च द्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततस्तौ विषमस्नेहात् संहन्येते, इदं च परमतानुवृत्योक्तं, अन्यथा रूक्षावपि रूक्षत्ववैपम्ये संहन्येते एव, यदाह - "समनिद्धयाइ बन्धो, न होइ समलुक्खयाइवि न होइ । वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥ १ ॥ | "ति, 'खंधेऽवि यणं से असासए'त्ति उपचयापचयिकत्वाद्, अत एवाह - 'सया समिय' मिति, 'पुव्विं भासा अभास 'त्ति भाष्यत इति भाषा, भाषणाच्च पूर्व न भाष्यत इति न भाषा, 'भासिज्ज माणी'ति शब्दार्थोपपत्तेः, 'भासिया अभास' त्ति शब्दार्थवियोगात्, 'पुव्विं किरिय'त्ति करणात्पूर्वं क्रियैव नास्तीति, असच्चादेव न दुःखा, सुखापि नासावसच्चादेव, केवलं परमतानुवृत्त्या अदुःखेति उक्तं, 'जहा भास'त्ति वचनात्, 'कज्ज माणी किरिया दुःखा सच्चात् इहापि यत् क्रिया दुःखेत्युक्तं तत्परमतानुवृत्यैव, अन्यथा सुखापि क्रियमाणैव क्रिया, तथा 'किरिया समयवितं च ण'मिति दृश्यं च । 'किचं दुक्ख' मित्यनेन कर्मसत्ताssवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि – यद् द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फलमन्यस्येतरत् तत् न विशिष्टहेतुमन्तरेण सम्भाव्यते, कार्यत्वात्, घटवद्, यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च - " जो तुलसाहणाणं फले विसेसो ण सो विणा हेउं । कअत्तणओ गोयम ! घडुव्व हेऊ य से कम्मं ॥ १॥ "ति, पुनरप्यन्ययूथिकमतान्तरमुपदिशन्नाह - 'इरि यावहि त्ति (सू. ८२ ) ईर्ष्या गमनं तद्विषयः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी- केवल योगप्रत्ययः कर्मबन्ध इति, 'संपराइय'त्ति संपरैति - परिभ्रमति प्राणी भवे एभिरिति सम्परायः (या) - कपायाः तत्प्रत्यया या सा साम्परायिकी - कषायहेतुः कर्म्मबन्ध इति, 'परउत्थियवत्तव्यं णेयच्वं'ति इह सूत्रे अन्यतीर्थिक वक्तव्यं स्वयं वाच्यं तचेदम् - " जैसमयं संपराइयं पकरेइ तंस -
२ शतके
१ उद्देशः
॥४१॥