________________
श्रीभगलघुवृत्ती
HamaHOnlil vip hindimammichindimami Diminidis Dominion,
| यदुक्तं 'कर्म सदा चीयते, अपचीयते चेति तदप्येकान्तशाश्वतत्वे नोपपद्यत इति, यच्चोक्तं 'भाषणात्पूर्व भाषा, तीतुत्वात् तद
सङ्गतमेव, औपचारिकत्वात् , उपचारस्य तत्वतोऽवस्तुत्वात् , उपचारस्ताचिके वस्तुनि सति भवतीति ताचिकी भाषाऽस्तीति सिद्धं, | यच्चोक्तं 'भाष्यमाणा अभाषा, वर्तमानसमयस्याव्यावहारिकत्वात् तदप्यसम्यक्, वर्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वात् , | अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्त्वेन व्यवहारानङ्गत्वात् , यच्चोक्तं-'भाषासमयेत्यादि' तदप्यसाधु, भाष्यमाणाया भाषाया | अभावे भाषासमय इत्यभिलापस्याभावप्रसङ्गात् , यश्च प्रतिपाद्यस्याभिधेयप्रत्ययोत्पादकत्वादिति हेतुः सोऽनेकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः, तथा यदुक्तम्-'अभाषकस्य भाषे'ति, तदसङ्गतं, एवं हि सिद्धस्याचेतनस्य च भाषाप्राप्तिप्रसङ्ग इति, एवं क्रियाऽपि वर्तमानकाल एव युक्ता, तस्यैव सच्चादिति, यच्चानभ्यासादिकं कारणमुक्तं तच्चानेकान्तिकं, अनभ्यासादावपि यतः काचित् सुखादिरूपैव, तथा यदुक्तं 'अकरणतः क्रिया दुःखे ति, तदसम्यक्, यतः करणकाल एवं क्रिया दुःखा वा सुखा वा दृश्यते, न पूर्व पश्चाद्वा, तदसत्चात् , तथा यदुक्तं 'अकिञ्चमिति, यदृच्छावादिमताश्रयणात्' तदप्यसाधीयः, यतो यद्यकरणादेव कर्म दुःखं सुखं वा स्यात् तदा विविधैहलौकिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात् , अभ्युपगतं च किंचित् | पारलौकिकानुष्ठानं तैरपि चेत्येतत्सर्व अज्ञानविजृम्भितम् , उक्तं च वृद्धैः-"परतित्थियवत्तब्बय पढमसए दसमयमि उद्देसे । विभंगीऽणादेसा मइभेया यावि सा सव्वा ॥१॥ सब्भ्यमसम्भृयं भंगा चत्तारि हुंति विभंगे । उम्मत्तवायसरिसं तो अन्नाणंति निद्दिष्टुं ॥२॥" सद्भूते परमाणौ असद्भूतम दि १ असद्भूते सर्वगात्मनि सद्भूतं चैतन्य २ सद्भूते परमाणौ सद्भूतं निष्प्रदेशत्वं ३ असते सर्वगात्मनि असद्भूतमकर्तृत्वमिति ४ 'अहं पुणगोयम'त्ति प्रतीतार्थमेव, नवरं दोण्हं परमाणुपोग्गलाणं अत्थि सिणे