________________
श्रीभगवतीसूत्रम्
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सच्चा इतीरिताः ॥ १॥" 'वेयणं' ति शुभाशुभकर्मवेदनां पीडां वा वेदयन्ति - अनुभवन्ति इत्येतद् वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वात्, यादृच्छिकं लोके सर्वं सुखदुःखमिति, यतः - “ अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिभानः ॥ १॥" ' से कहमेयं' ति अथ कथमेतत् ? भदन्त !, | एवमन्ययूथिकन्यायेनेति प्रश्नः, 'जण्णं ते अण्णउत्थिए' इत्याद्युक्तं, मिथ्या चैतदेवं यदि चलदेव प्रथमसमये चलितं न स्यात् तदा द्वितीयादिष्वपि तदचलितमेवेति न कदापि चलेद्, अत एव वर्त्तमानस्यापि विवक्षया अतीतत्वं न विरुद्धं, यच्चोच्यते- 'चलितकार्याकरणादचलितमेवे 'ति तदयुक्तं यतः प्रतिक्षणमुत्पद्यमानस्थासकोशादिवस्तुष्वंत्यक्षणभावि वस्तु आद्यक्षणे स्वकार्यं न कुर्यात्, असत्त्वात्, अतो यदन्त्यसमये चलितं कार्यं विवक्षितं परेण तदाद्यसमये चलितं यदि न कुर्यात् तदा क इव दोषोऽत्र ?, कारणानां स्वस्वकार्यकरणस्वभावत्वादिति, यच्चोक्तम् 'द्वौ परमाणू न संहन्येते, सूक्ष्मतया, स्नेहाभावात्', तदयुक्तं, एकस्यापि परमाणोः स्नेहसम्भवात् सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमात्, यत उक्तम्- "तिष्णि परमाणुपोग्गला एगयओ साहण्णंति, ते भिजमाणा दुहावि तिहावि कजंति, दुहो कजमाणा एगयओ दिवडे'त्ति अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एव, अतः कथं परमाण्वोः स्नेहाभावेन सङ्घातीभावः, यच्चोक्तम्- 'एकतः सार्द्ध' एतदप्यचारु, परमाणोरर्धीकरणे परमाणुत्वाभावप्रसङ्गात्, तथा यदुक्तं 'पश्च पुद्गलाः संहताः कर्मतया स्युः, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुमयानन्तस्कन्धरूपत्वात्, तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसङ्ख्यातप्रदेशात्मकं जीवमावृणुयादिति, तथा यदुक्तं कर्म शाश्वतं ' तदप्यसङ्गतं, कर्मणः शाश्वतत्वे तत्क्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षस्य चाभावप्रसङ्गात्, दृश्येते ज्ञानादिहानिवृद्धी, तथा
११ शतके १० उद्दे.
118011