SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीभगबती सूत्रम् दरिद्रस्य 'किविण'त्ति रङ्कस्य कृपणस्य वा, 'अपञ्चक्खाण' त्ति अप्रत्याख्यानक्रिया क्रियते, अविरतिं प्रतीत्य सर्वेषां समैवसदृशीत्युत्तरं । 'आहाकम्मे त्यादि ( मू. ७९ ) आधया - साधुविकल्पेन यत् सचेतनमचेतनं क्रियते चीयते गृहादिकं व्यूयते वस्त्रादिकं । 'अथिरे पलोहइति (सू. ८०) अस्थिरं द्रव्यं लोष्ठादि प्रलोटति - परावर्त्तते, अध्यात्मचिन्तायां तु जीवप्रदेशेभ्योऽस्थिरं कर्म, तस्य प्रतिसमयं चलनेनास्थिरत्वात्, प्रलोटति-बन्धोदयनिर्जरणादिपरिणामैः परिवर्त्तते, 'थिरे ण पलोइ' स्थिरं शिलादि न मलोटति, अवस्थितत्वात्, तथा अस्थिरं भङ्गुरस्वभावं तृणादि भज्यते, एवं कर्मक्षयेऽपि अस्थिरं कर्म तद्भज्यते - व्यपैति, तथा स्थिरम् - अभङ्गुरं अयः शलाकादि न भज्यते, एवमध्यात्मचिन्तायां स्थिरो - जीवः स च न भज्यते, शाश्वतत्वादिति, जीवप्रस्तावादिदमाह - 'सासए बालए'ति बालको व्यवहारतः शिशुः, निश्रयतोऽसंयतो जीवः, स च शाश्वतो द्रव्यत्वात्, 'बालियत्तं' ति इह इकप्रत्ययस्य स्वार्थिकत्वात् बालत्वं व्यवहारतः शिशुत्वं निश्वयतोऽसंयतत्वं तदशाश्वतं पर्यायत्वादिति, एवं पण्डितसूत्रमपि, नवरं पण्डितो व्यवहारेण शास्त्रज्ञो जीवः, निश्चयतस्तु संयत इति ॥ प्रथमशते नवमोद्देशकविवरणम् १-९॥ 'अन्न उत्थिया 'ति (सू. ८१) 'चलमाणे अचलिए 'त्ति चलत्कर्म अचलितं, तेन चलितकार्याकरणात्, वर्त्तमानस्यातीततया व्यपदेष्टुमशक्यत्वात् एवमग्रेऽपि वाच्यं, 'एगयओ न साहण्णंति'त्ति एकत: - एकत्वेन एकस्कन्धतया वा न संहन्यंति-न संहतौ स्याताम्, 'नत्थि सिणेहकाए' त्ति नास्ति स्नेहपर्यवराशिः, सूक्ष्मत्वात् त्र्यादियोगे तु स्थूलत्वात् सोऽस्ति, 'दुक्खत्ताए कति त्ति पञ्च पुद्गलाः संहत्य दुःखतया - कर्मतया क्रियन्ते, भवन्ति इत्यर्थः, 'दुक्खेऽवि य णं' ति कम्र्म्मापि च 'से' त्ति तत् शाश्वतमनादित्वात्, 'सय'त्ति सदा 'समियं' ति सम्यक् समितं वा चीयते चयं याति, अपचीयते - अपचयं याति 'पुबि " CHOOSE ONE CHUDDH MHA1010 COMMEN MOOCHEME. ९ शतके ९ उद्देशः ॥३९॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy