SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीभग १ शतके ९ उद्देश: वती सूत्रम् वाच्यानि, अज्ञानपदं विह ज्ञानविपक्षत्वादधीतं, अन्यथा प्रथमशतरोहाकृताण्डककुर्कुटीप्रश्नषष्ठोद्देशके 'दिट्ठीदंसणनाणेति द्विती- यगाथायां ज्ञानपदमेव दृश्यते, 'हेडिल्ले ति औदारिकादीनि गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात् , 'कम्मयंति कार्मणं चतुर्थ| पदेन, अगुरुलघुद्रव्यात्मकत्वात् , मनोवाग्योगौ चतुर्थपदेन वाच्यौ, काययोगः कार्मणवर्जस्तृतीयेन, गुरुल घुद्रव्यात्मकत्वात् , |'सब्वे दव्य'त्ति सर्वद्रव्याणि धर्मास्तिकायादीनि, सर्वप्रदेशास्तेषामेव निर्विभागा अंशाः, सर्वपर्यवा वर्णोपयोगादयो द्रव्यधर्माः, ul एते पुद्गलास्तिकायवद्वाच्याः, गुरुलघुत्वेनागुरुलघुत्वेन चेत्यर्थः, यतः सूक्ष्माण्यमूर्तीनि च द्रव्याणि अगुरुलघूनि, इतराणि तु | गुरुलघूनि, प्रदेशपर्यवास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति, गुरुलधुत्वाधिकारादिदमाह-'लाघवि'(मू०७५) अल्पोपधित्वं 'अप्पिच्छ'त्ति आहारादिषु अल्पाभिध्यः 'अमुच्छ'त्ति उपधावसंरक्षणानुबन्धः 'अगेहित्ति भोजनकरणादिषु नासक्तिः अप्रतिबद्धता | स्वजनादिषु इति पदपञ्चकं, 'पसत्यति प्रशस्तं साधूनां ज्ञेयं, 'कंखापओसेत्ति काङ्क्षा-दर्शनान्तरग्रहः सैव प्रकृष्टो दोषः कांक्षाप्रदोषः काङ्क्षाप्रद्वेषौ वा रागद्वेषावित्यर्थः, 'अण्णउत्थियाणं'ति (सू० ७६) अन्यथं-विवक्षितसङ्घादपरः सङ्घः, तदस्ति येषां ते अन्ययुथिकाः-तीर्थान्तरीयाः एवमारव्यान्ति सामान्यतः, भाषन्ते विशेषतः, पन्नविंति-उपपत्तिभिः 'परूविं'त्ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेन आयुर्द्वयकरणे नास्ति विरोध इत्युक्तम्-'एगे जीवे इत्यादि, 'आहंसुत्ति उक्तवन्तः, मिथ्यात्वं चास्यैवं-एकेनाध्यवसायेन विरुद्धयोरायुषोर्षन्धायोगात् , यतो जातमात्री जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्वद्धं तदा दानाध्ययनादीनां वैययं स्यादिति, तेणं ति(मू० ७७)पासावचिज्जा' पापित्याना-पार्थशिष्याणां अयं पार्थापत्यीयः 'थेरे'त्ति | श्रीमहावीरशिष्याः, 'सामाइयंति समभावरूपं न जानन्ति, सूक्ष्मत्वात् , 'के भेति किं भवतामिति, 'आयाणे'त्ति आत्मा नः ॥३८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy