________________
श्रीभगवतीसूत्रम्
HARIDD
१जातो
९ उद्देशः
| सव्वलहुं वा न विजए दव्वं । ववहारओ य जुञ्जइ बायरखंधेसु णऽण्णेसु॥१॥ अगुरुलहू चउफासा अरूविदव्या यहोति नायव्वा। | सेसा उ अट्ठफासा गुरुलहुया णिच्छयणयस्स ॥२॥" 'चउफास'त्ति सूक्ष्मपरिणामानि, अट्ठफास'त्ति बादराणि,गुरुलघु द्रव्यं रूपि, अगुरुलघुद्रव्यमरूपि रूपि वेति, व्यवहारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र निदर्शनानि-गुरुर्लोष्टः अधोगमनात् , लघुधूमः ऊर्ध्वगमनात् , गुरुलघु आकाशं तत्स्वभावत्वात् , अवकाशान्तरादिसूत्राग्येतानि एतद्गाथानुसारेणावगन्तव्यानि,तद्यथा-'ओवास वाय घणउदहि'त्ति(सूत्रे ५४ गा.१७-१८)गाथाद्वयं सुगमं पूर्वोक्तव्याख्यानात् , 'वेउब्वियतेयाई पडुच्च'त्ति वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैक्रियतैजसवर्गणात्मके ते, यदाह-"ओरालिय वेउब्विय आहारग तेय गुरुलघू दब"त्ति । जीवं कार्मण| शरीरं प्रतीत्य नारका अगुरुलघुका एव, जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य कार्मणवर्गणात्मकत्वात् अगुरुलघुत्वं, आह च-'कम्मगमणभासाई एयाई अगुरुलहुयाई ति, 'नाणत्तंति यस्य यानि शरीराणि तस्य तानि ज्ञात्वा असुरादिसूत्राणि वाच्यानि, असुरादिदेवा नारकवद्वाच्याः, पृथिव्यादयस्तु औदारिकतैजसे प्रतीत्य गुरुलघवः, जीवं कार्मणं च प्रतीत्यागुरुलघवः, वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पञ्चेन्द्रियतियञ्चोऽपि, मनुष्याश्चौदारिकवैक्रियाहारकतैजसानि प्रतीत्येति, 'धम्मस्थिकाए' इह यावत्करणाद् अहम्मत्थिकाए आगासत्थिकाए पदं यावत् चउत्थपएणं अगुरुलघवः, शेषाणां निषेधः कार्यः, धर्मास्तिकायादीनामरूपितया अगुरुलघुत्वादिति, समया अमूर्ताः, कर्माणि च कार्मणवर्गणात्मकानि अगुरुलघूनि, 'दब्बलेसंति द्रव्यतः कृष्णलेश्या औदारिकादिशवर्णा ओदारीकादिकं च गुरुलघु इतिकृत्वा एषापि गुरुलध्वी, भावलेश्या तु जीवपरिणतिस्तस्या अमृतत्वादगुरुलध्वीति । 'दिट्ठी दसणणाण'त्ति 'दृष्टयादी ति दृष्टयादीनि जीवपर्यायत्वेनागुरुलघुत्वात् चतुर्थपदेन
ImamalthmIRIMIRRoshanam